________________
५६
कातन्त्रव्याकरणम्
प्रकृत सूत्र से मकारागम, स्त्रीलिङ्ग में "स्त्रियामादा'' (२।४।४९) से आ-प्रत्यय, समानदीर्घ-आकारलोप तथा विभक्तिकार्य ।।८८१।
८८२. उपात् प्रशंसायाम् [४।१।२७] [सूत्रार्थ]
प्रशंसा अर्थ गम्यमान होने पर यकारादि प्रत्यय के परे रहते उप-उपसर्ग से परवर्ती ‘लम्' धातुघटित भकार से पूर्व मकारागम होता है ।।८८२।
[दु० वृ०]
उपात् परस्य लभेर्भात् प्राङ् मकारागमो भवति ये परे प्रशंसायां गम्यमानायाम्। उपलम्भ्यानि धनानि। प्रशंसनीयानीत्यर्थः। प्रशंसायामिति किम्? उपलब्धुं शक्यम् उपलभ्यं धनम्। कथमालभ्य, उपलभ्यते? लभेर्यकार इति विशेषणात्।।८८२।
[दु० टी०]
धातोः प्रत्ययमात्रस्य च प्रशंसायां वृत्त्यभावात् समुदायविशेषणं ज्ञेयम् , प्रशंसायां गम्यमानायामित्यर्थः । कर्मणः कर्तुर्वा प्रशंसा, अन्येभ्योऽलभ्यानि तस्मादवश्यमुपलभ्यानि भवतो धनानीति कर्म प्रशस्यते । भवतो धनान्युपलभ्यानि, कर्तार: प्रशस्यन्ते । यादृकशब्दतो लक्षणमहंतीति "शकि च कृत्याः" (४।५।१०९) इत्यादि। उपलब्धुम् इत्यादि । अथवा उपलभ्यमिति, प्राप्यमित्यर्थः । कथमित्यादि । लभिमाश्रित्योत्पन्नो यकार: "शकिसहिपवर्गान्ताच्च" (४।२।११) इति विहित इत्यर्थः। श्रुतत्वाल्लभेरेवेति । भादिति सम्बन्धात् तेन यणि न भवतीत्यर्थः । यबादेशे च न भवति 'आलभ्य चाम्बुतृषितम्' इति समासाश्रयत्वात् । अन्यः ‘आङो न यि' इति पठति । लभेर्भात् प्राङ् नकारागम इत्यर्थः । यकारेऽविशेषे प्राप्नोति, अस्तु । अनिदनुबन्धानामगुणेऽनुषङ्गलोपो भवति, यदि शास्त्रं शस्त्रमित्यकरणं मन्यते । लोपशास्त्रमस्तीति लोपेन भवितव्यम् । तस्मादकरणमेव न्याय्यम् , विधानस्य कृतार्थत्वात्। अनुषङ्गलोपोऽपि नाशक्यते "वा कृति रात्रेः'' (४।१।२८) इत्यत्र मकारः स्मर्यते । अन्य आह - मण्डूकगतिव्यवस्थितवाधिकाराद् गुणिन्येव ये । स्तुताविति न कृतम् , पर्यायशब्दत्वात् ॥८८२।
[वि० प०]
उपात्० । “समासे भाविन्यनत्रः क्त्वो यप्, सार्वधातुके यण्" (४।६।५५; ३।२।३१) चानेन प्राप्नोतीत्याह - कथमिति । कः पुनर्लभेर्यकार: ? य: पवर्गान्तद्वारेण "शकिसहिपवर्गान्ताच्च" (४।२।११) इत्यनेन विहित इत्यर्थः ।।८८२।
[क० च०]
उपात्० । अत्र द्वयोः कर्तृकर्मणोः प्रशंसायां भवति, कर्तुर्यथा देवदत्तेनैवोपलभ्यं धनं नान्येन । तेनोपलभ्यमुपादेयम् ।।८८२।