________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
१३४८. भुजोऽन्ने [४।६।६३] [सूत्रार्थ
भक्ष्य अर्थ में घ्यण् प्रत्यय के परे रहते भुज्-धातुघटित जकार को गकारादेश नहीं होता है।।१३४८।
[दु० वृ०]
भुजो०। भक्ष्येऽर्थे घ्यणि गो न भवति। भोज्यमन्त्रम्, भोज्यं पयः। अन्न अति किम्? भोग्या भूः, भोग्यः कम्बलः।।१३४८।
[दु० टी०]
भुजो०। अयमप्यनावश्यकार्थमारम्भः। भोज्यमन्त्रम् अभ्यवहार्यमुच्यते। ननु भुजिरयं भक्षणे भक्षिश्च खरादिद्रव्यसाधने? यथा भोज्यं भक्ष्यं पेयं लेह्यम्, नैवमभ्यवहारार्थमात्रे दृश्यते- अब्भक्षा, वायुभक्षेति। अभक्ष्यो ग्राम्यकुक्कुटः इत्यनुसारेणाधिकरणक्रियार्थ: सामान्यशब्दः एव न्याय्यः पक्ष इत्याह- भोज्यमित्यादि। भोग्य इति पालने भुजिरत्र। यजादयो यज्ञाङ्गे, इनन्ता एव सज्ञाशब्दाः। न च भाषायां प्रयुज्यन्ते। याजः, प्रयाजः, अनुयाजः, उपयाजः, उपांशुयाजः, ऋतुयाजः।। १३४८।
[वि०प०]
भुजो०। अत्तव्यम् अन्नम्। अभ्यवहार्य भक्ष्यमिति पर्याय:। यजादयोऽपि यज्ञाङ्गे इति वक्तव्यम्। यजेः- प्रयाजः, उपयाजः, अनुयाजः, उद्याजः, ऋतुयाजः। अस्मन्मते एते सज्ञाशब्दा: यथाकथञ्चिद् व्युत्पाद्या इति यजेरिनन्तादलप्रत्ययेनापि सिध्यन्तीति। न चैते भाषायां दृश्यन्ते।।१३४८।
[क० त०]
भुजो०। अत्रमदनीयम्, न तु भक्तपर्यायः। भोग्य इत्यादि, भुजिरत्र पालने।।१३४८।
[समीक्षा]
'भोज्य' शब्द में जकार को गकारादेश का निषेध उभयत्र किया गया है। अन्तर यह है कि कातन्त्रकार ने इसका साक्षात् निर्देश किया है, जबकि पाणिनि निपातनविधि का निर्देश करते हैं- "भोज्यं भक्ष्ये' (अ० ७।३।६९)। इस प्रकार कातन्त्रीय निर्देश में लाघव (स्पष्टता) कहा जा सकता है।
[विशेष वचन] १. अस्मन्मते एते सज्ञाशब्दा यथाकथञ्चिद् व्युत्पाद्याः (वि० प०)। [रूपसिद्धि]
१-२. भोज्यमन्नम्, भोज्यं पयः। भुज् घ्यण+सि। 'भुज्' धातु से 'घ्यण्' प्रत्यय, लघूपधगुण, प्रकृत सूत्र द्वारा गकारादेश का निषेध तथा विभक्तिकार्य।। १३४८।