________________
कातन्त्रव्याकरणम्
इदमसङ्गतमेव लक्ष्यते। क्रियाभेदेऽपि पूर्वकालत्वं समानकर्तृकत्वं च प्रतीयते । एतेषु कषादिषु यैव क्रिया प्रयोगस्य सैवानुप्रयोगस्येति नास्ति क्रियाभेद इति क्रियाभेदाभावे कथं पूर्वकालता ? तदेवाह जिनेन्द्रबुद्धि: - " एतच्चोभयं क्रियाभेदे सति भवति" इति उभयं पूर्वकालत्वं समानकर्तृकत्वं चेत्यर्थः । शाकटायनोऽप्याह — "प्रयोगानुप्रयोगयोः (प्रकृत्युपपदयोः) क्रियाभेदाभावात् पूर्वकालताऽस्य नास्तीति क्त्वाप्रसङ्ग एव तस्मिन् विधिः” इति तस्मिन्निति कषादावुपपदे णमो विधिरस्त्येव क्त्वाप्रसङ्ग इति भावः । न हि निमूलकाषं कषतीत्यादावर्थे पूर्वकालत्वमुपपद्यते इति भावः । उपदेशविदस्तु मन्यन्तेविवक्षयात्राप्यनुप्रयोगः पूर्वकालतामभिदधात्येवेति ।। १३१५ ।
५५६
[क०त०]
कषा०। कषादिभ्यो निमूलसमूलयोरित्यादिना णम् विहितः, स च पूर्वकाले पूर्वश्च परापेक्षयेति सामान्यक्रियापेक्षया पूर्वत्वं स्यादिति कषादिषूपपदेषु पौर्वापर्यमन्तरेण भवत्वित्यर्थं वचनम्। नन्वेवकारेण किं प्रयोजनम्, तैरित्युक्तेऽपि अन्यैरनुप्रयोगो न भविष्यति? सत्यम्। ‘कन्यादर्श वरयति' इत्यादौ धात्वन्तरेणापि भवतीति सूच्यते । अथ वचनबलादेवैतत् सिध्यति, अन्यथा श्रुतत्वात् तैरेव भविष्यति किमनेन सूत्रेण ? सत्यम्, सुखार्थमेव तदेव ग्रहणमिति । अथ कषादिषु तेभ्यो णमिति क्रियताम्, कषादिषूपपदेषु तेभ्यः कषादिभ्यो णम् भवतीत्येतदर्थो भविष्यति ततश्च तैरेवानुप्रयोग इति व्यर्थमुपपदत्वेनैवानुप्रयोगस्य लब्धत्वात् ? सत्यम्, अनुप्रयोगग्रहणस्थित यस्यानुप्रयोगस्तत्समानार्थता प्रतीयते प्रयोगसमानार्थस्यैवानुप्रयोगव्यवहारात् । ततश्च प्रयोगे समानार्थकयोर्द्वयोरेकस्यार्थतिरस्कारः। निमूलकाषं कषतीति । निमूलं कषतीत्यर्थः। पौर्वापर्यमन्तरेणापि भवति, यदि च तैरेवानुप्रयोग इति नास्ति तदा पूर्वकाल इत्यधिकारे किञ्चिन्निमूलं कषित्वाऽपरं कषतीति व्यक्त्या भिन्नमेव कषणं प्रतिपाद्यं स्यादिति ।
इदानीं तु व्यक्त्या जात्या चैकमिति । कर्मणीति न वर्तते, व्याप्तिन्यायात् । अन्यथा कर्त्राद्युपपदे यदा णम् क्रियते तदानुप्रयोगो न स्यादिति । कषादिष्विति। विषयसप्तमीयम्। अत एव वृत्तौ विवृणोति - णमो विषयभूतेष्विति । येभ्यो णम् क्रियते, तेषु प्रकृतिस्वरूपेष्वित्यर्थः । तद्विषयेष्वनुप्रयोगस्तैरेव एतस्यैव विवरणं वृत्तौ कषादिभिरेवेति यन्मते लौकिकी पूर्वकालविवक्षा अत्रापि विद्यते तन्मतमाहअनुप्रयोगश्चेति। पञ्ज्यां धातुसम्बन्ध इति धातोरेव प्रत्ययो विधीयते न त्वर्थविशेषे । अतो वर्तमानादिकालप्रकाशनार्थमनुप्रयोग: सिद्ध एव, किन्तु धात्वन्तरेणापि स्यादिति । ननु कथमिदमुच्यते यावता प्रत्यासत्त्या तेनैव धातुना भविष्यति ? सत्यम्, श्रुतव्याख्यानमनादृत्योक्तमिदम्। यदि पुनः श्रुतव्याख्यानमनादृत्योक्तमिदम्। यदि पुनः श्रुतव्याख्यानमङ्गीक्रियते, तदा नियमार्थं सूत्रमिदम् । 'कन्यादर्श वरयति' इत्यादौ धात्वन्तरेणाप्यनुप्रयोगः स्यादिति । उक्तसमुच्चये चशब्दः इति न केवलं प्रयोगः