________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५३९
[वि०प०]
यथा। तदर्थमिति। स एवार्थो यस्येति विग्रहः। कश्चेदमसूयन् वक्ति- कथं भवान् भोक्ष्यते इति, इतरोऽप्यसूयत्रेव प्रतिवचनं ददाति यथाकारमित्यादि।।१२९५।
[क० त०]
यथा०। यद्यपि गुणे दोषाविष्करणम् असूया, तथापि साऽत्र न गृह्यते, अनभिधानात्। किन्तु प्रतिपाद्यप्रतिपादकविशिष्टतया अक्षमा आश्रीयते प्रष्टरसूयापूर्वकमेव पृच्छा अन्यथा प्रतिवचनमपि असूयापूर्वकं न स्यात्। यदि प्रष्टा असूयन् पृच्छति तदैव प्रतिवक्ताप्यसूयतीति। एतेनासूयया प्रतिवचनमिति तृतीयासमासोऽपि भवति।
[पाठान्तरम् - टीकायामसूयार्थमेवेति। असूयाबोधकमित्यर्थः। असूयाभवं वेति। प्रष्टा असूयापूर्वकं पृच्छति तज्जन्यं प्रतिवचनमित्यर्थः। तदा पञ्चमीसमास:। तदा प्रतिवचनमपि असूयापूर्वकम् अर्थात् प्रतीयते]।।१२९५।
[समीक्षा]
'यथाकारम्, तथाकारम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'खमिञ्' प्रत्यय तथा पाणिनि ने ‘णमुल्' प्रत्यय किया है- “यथातथयोरसूयाप्रतिवचने' (अ० ३।४।२८)। यहाँ अनुबन्धभेद को छोड़कर अन्य तो समानता ही है।
[विशिष्ट वचन] १. असूया अक्षमा, तदर्थं प्रतिवचनम् (दु० वृ०)। २. एष बालावबोधार्थो निर्देश: (दु०टी०)। ३. असूयाभवं वा प्रतिवचनम् असूयाप्रतिवचनम् (दु०टी०)। [रूपसिद्धि]
१.२ यथाकारम्। यथा+कृ+खमिञ्+सि। तथाकारम्। तथा कृ+खमिञ्+सि। 'यथा-तथा' शब्दों के उपपद में रहने पर 'कृ' धातु से 'खमिञ्' प्रत्यय, ‘ख्-इ-ञ्' अनुबन्धों का प्रयोगाभाव, ऋकार को वृद्धि तथा विभक्तिकार्य।।१२९५।
१२९६. दृशो णम् साकल्ये [४।६।११] [सूत्रार्थ
साकल्यविशिष्ट कर्म के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (१।२८९) धातु से ‘णम्' प्रत्यय होता है।।१२९६।
[दु०वृ०]
साकल्यविशिष्टे कर्मण्यपपदे दृशो णम् भवति। कन्यादर्श वरयति। यां यां कन्यां पश्यति तां तां सर्वां वरयतीत्यर्थः। विदेर्वक्तव्यम्- ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तं तं सर्वं भोजयतीत्यर्थः। साकल्य इति किम्? कञ्चिद् ब्राह्मणं दृष्ट्वा भोजयति।।१२९६।