________________
४९२
कातन्त्रव्याकरणम्
प्रत्यय द्वारा की है। पाणिनि का सूत्र है -- “आतश्चोपसर्गे'' (अ० ३।३।१०६)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१-५. सन्धा। सम् + धा + अङ् + आ + सि। संस्था। सम् + स्था - अङ् + आ + सि। व्यवस्था। वि + अव + स्था + अङ् + आ + सि। उपदा। उप + दा + अङ् + आ. + सि। उपधा। उप + धा + अङ् + आ + सि।।१२५६। १२५७. ईषिश्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो
युः [४।५।८५] [सूत्रार्थ
भाव अर्थ में 'ईष - श्रन्थ् - आस् - वन्द् - विद् - कारितप्रत्ययान्त' धातुओं से स्त्रीलिङ्ग में 'यु' प्रत्यय होता है।।१२५७/
[दु० वृ०]
एभ्यो युर्भवति। 'ईषगतिहिंसादानेषु' (१।४३३) ईषणा। श्रन्थना, उपासना, वन्दना, आसिसहचरितो वेत्ति:-वेदना, कारणा। चुरादौ 'घट्ट चलने' (१।३५१)घट्टना। भौवादिकस्य घट्टतेः क्तेरनभिधानात् ।।१२५७।
[वि० प०]
ईषि०। भौवादिकस्येति। क्तिप्रत्ययापवादो युर्विधीयमानक्तेरेव विषये युज्यते। न च भौवादिकस्य घट्टतेः क्तिरभिधीयते। अतो न युप्रत्यय इति भावः।।१२५७।
[क० च०]
ईषि०। क्तिप्रत्ययापवाद इति। ननु कथमेतत् कारितान्तस्य घटे: प्रत्ययान्तत्वात् "शंसिप्रत्ययादः'' (४।५।८०) इति अप्रत्ययस्यैव बाधको युक्तः? सत्यम् । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (व्या० परि० ४२) - अप्रत्यये प्राप्ते कारितान्तत्वाद् यु भिधीयते, अपि तु क्तो। तथापि कारितान्तग्रहणाभावे भीषिचिन्तीतिवचन किमर्थम् , प्रत्ययान्तत्वादप्रत्ययेनेव सिद्धेः। न चाप्रत्यये वा विशेषोऽस्ति, तस्माद् वचनं भीषिचिन्तीति नियमार्थम, अन्येषां कारितान्तानामप्रत्ययो नास्तीति नियमयति। अथ स्त्रियां क्तिप्रत्ययस्य बाधक इति यश्च भीषिचिन्तीत्यत्र यो प्राप्ते वचनमित्युक्तम् , तत्तु कारितान्तग्रहणस्थिताविति हेमः।।१२५७।
[समीक्षा]
'कारणा, आसना' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने 'य' प्रत्यय तथा पाणिनि ने 'युच्' प्रत्यय से की है – “ण्यासश्रन्थो युच्” (अ०३।३।१०७)। ज्ञातव्य है कि पाणिनि का चकारानुबन्ध चित्स्वरार्थ किया गया है। कातन्त्र में स्वर-प्रकरण के