________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
कण्डूयादिभ्यो यणित्यादृतमिति, अपि तु एवम्भूता अमी धातवः इति न प्रत्ययान्तत्वम्? सत्यम्, मतान्तरेणेदमुदाहरणम् । इह तु "गुरोश्च निष्ठा सेट: " (४।५।८१) इत्यनेनैव सिध्यतीति। कण्डूतिरिति । “य्वोर्व्यञ्जनेऽये" (४|१| ३५ ) इति यलोपः । शन्सोः क्तिरपि दृश्यते प्रशस्तिरिति । । १२५२ ।
[समीक्षा]
'प्रशंसा, पिपासा' इत्यादि शब्दों की सिद्धि दोनों ही व्याकरणों में 'अ' प्रत्यय से की गई है। पाणिनि के एतदर्थ दो सूत्र हैं “अ प्रत्ययात्, गुरोश्च हल:" (अ० ३।३।१०२, १०३)। सूत्रद्वयजन्य पाणिनीय गौरव को छोड़कर अन्य प्रकार की तो उभयत्र समानता ही है।
४८७
[रूपसिद्धि]
+
१- ३. प्रशंसा । प्र + शंस् + अ + 3πT + सि। पिपतिषा । पत् + सन् + अ + आ + सि। पिपासा । पा + सन् अ + आ + सि। प्रपूर्वक 'शंस्- पिपतिष पिपास' धातुओं से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ।। १२५२। १२५३. गुरोश्च निष्ठासेट: [ ४।५।८१]
-
[ सूत्रार्थ]
निष्ठासंज्ञक प्रत्यय के परे रहते इडागम वाली गुरुमान् धातु से 'अ' प्रत्यय होता है ।। १२५३।
[दु० वृ० ]
गुरुमतो धातोर्निष्ठायां सेटोऽप्रत्ययो भवति । ईहा, ईक्षा, जागरा । गुरोरिति किम् ? निगृहीतिः । निष्ठासेट इति किम् ? नीतिः, राद्धिः ।। १२५३।
[दु० टी० ]
गुरोः । गुरुयोगाद् गुरुर्धातुः, यथा दण्डयोगाद् दण्डः पुरुषः । कुन्ता स्त्रीति । निष्ठायां सेडिति सप्तमीतत्पुरुषो न तु निष्ठासेट् परो यस्माद् धातोरिति बहुव्रीहिः । सेडित्यस्य विशेषणत्वात् पूर्वनिपातः सम्भाव्यते इत्याह गुरुमत इत्यादि । शीङोऽपि तर्हि स्यात् नित्यं गुरुयोगो यस्येति कथमेतन्निष्ठासेटो गुरोश्चेति सन्नियोगशिष्टोऽयं चकारः। सेडवस्थायां यो गुरुमानित्यर्थः । केचिन्निष्ठायां सेट इत्यसमस्तं पठन्ति । निष्ठायां सेटो निष्ठायां गुरोश्चेति सम्बन्धः । चकारस्तूक्तसमुच्चयमात्रे " शीङ्पूञ् ० " (४।१।१५) इत्यादिना गुणे कृते गुरुमतो नास्तीत्यर्थः । राद्धिरिति । एवम् आप्तिः, दीप्ति: । परस्त्वाह — गुरोश्च व्यञ्जनादिति स्वरादिभ्यस्त्रिभ्यो न स्यादिति परिगणनम्, तेन स्वंसा, ध्वंसा, स्वस्ति, ध्वस्तिरिति न्याय्यः पक्षः || १२५३।
[वि० प० ]
गुरोश्च। गुरुयोगाद् गुरुर्धातुः । यथा दण्डयोगाद् दण्डः पुरुषः इत्याह—गुरुमत