________________
४८०
कातन्त्रव्याकरणम्
१२४४. स्त्रियां क्तिः [४।५।७२]
[ सूत्रार्थ ]
स्त्रीलिङ्ग की विवक्षा में भाव तथा कर्तृभिन्न कारक अर्थ में संज्ञा के गम्यमान होने पर धातु से 'क्ति' प्रत्यय होता है ।। १२४४ ।
[दु० वृ० ]
स्त्रीलिङ्गे भावेऽकर्तरि च कारके संज्ञायां क्तिर्भवति । कृतिः, बुद्धिः । इज्यतेऽनेनेति इष्टिः । एवं श्रुतिः, स्तुतिः करणेऽपि ।। १२४४।
[क० च०]
"
स्त्रियाम्०। धातुर्हि क्रियाभिधायी, स कथं स्त्रियां वर्तितुमुत्सहते, यत्तु स्त्रियामिति विशेषणं तत् प्रत्ययद्वारकमेव यतः प्रत्यय एव सन्निहितत्वेन स्त्रीत्वमभिधेयत्वेनोपादत्ते इति। अथ प्रत्ययेनोच्यते इति कृत्वा प्रकृतेः किमायातम् ? सत्यम् । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः इति प्रत्ययत्वाद् वा प्रकृतेरपि वर्तमानताऽस्त्येवेति । ननु स्त्रियां क्तिप्रत्ययस्य विषये 'कारा' इति घञ् कथन्न स्यात् । न च वक्तव्यं क्तिरपवादभूता बाधिकेति वा सरूपत्वात् स्यादित्याह- नायमिति हेमः । अयमर्थः । नायं घञ्प्रत्ययोऽपवादः किन्तर्हि उत्सर्ग एव कथं वासरूपत्वात् स्त्रियां सोऽपि घञ् स्यात् ‘“वाऽसरूपोऽस्त्रियाम्” (४।२।८) इत्यनेन त्वसरूपोऽपवाद उत्सर्गविषयेऽपि विकल्पेन प्रवर्तते इति ।। १२४४। [समीक्षा]
'कृति:, बुद्धिः, स्तुति:' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'क्ति' प्रत्यय तथा पाणिनि ‘क्तिन् ' प्रत्यय करते हैं “स्त्रियां क्तिन् ” (अ०३ । ३ । ९४ ) । पाणिनि ने नकारानुबन्ध की योजना "ञ्नित्यादिर्नित्यम्” (अ० ६।१।१९७) से आद्युदात्त के विधानार्थ की है। कातन्त्र में स्वरविधान नहीं किया गया है। फलतः उभयत्र समानता ही है।
-
―
[रूपसिद्धि]
१-५. कृतिः । कृ + क्ति + सि। बुद्धिः । बुध् + क्ति + सि। इष्टिः । यज् + क्ति
+
सि। श्रुतिः । श्रु + क्ति + सि । स्तुतिः । स्तु + क्ति
+
सि। 'कृ - बुध् ं - यज् - श्रु
स्तु' धातुओं से 'क्ति' प्रत्यय तथा विभक्तिकार्य ।। १२४४।
१२४५. सातिहेतियूतिजूतयश्च [४।५।७३ ]
[सूत्रार्थ]
स्त्रीलिङ्ग में क्तिप्रत्ययान्त 'साति- हेति - यूति - जूति' शब्द निपातन से सिद्ध होते हैं ।। १२४५ ।