________________
४६६
कातन्त्रव्याकरणम्
[दु०वृ०]
समुदोरुपपदयोः पशुषु वर्तमानादजेरल् भवति । समजः । पशूनां समूह इत्यर्थः। उदजः। पशूनां प्रेरणमित्यर्थः। पशुरिति किम्? समाजश्छात्राणाम्, उदाज: खगानाम् ।।१२२३।
[दु० टी०]
समुदो०। पशुष्विति। बहुवचनादुदाहतं पशुष्विति भवति। अन्यथा पशाविति विदध्यात्। भाष्येणैव तच्चिन्तितम्।।१२२३।
[क० च०] समुदो। पशुष्विति । विषयसप्तमीष्टत्वात् पशुष्विति बहुवचनादित्यन्यः ।।१२२३। [समीक्षा]
‘समजः, उदजः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'अल् ' प्रत्यय तथा पाणिनि ‘अप् ' प्रत्यय करते हैं- “समुदोरजः पशुषु' (अ० ३।३।६९) । इस प्रकार अनुबन्धभेद के अतिरिक्त शेष समानता ही है ।
[रूपसिद्धि]
१-२. समजः। सम् +अज् + अल् -सि। उदजः। उद् + अज् + अल् + सि। ‘सम् - उद् ' उपसर्ग-पूर्वक 'अज क्षेपणे च' (१।६४० धातु से 'अल् ' प्रत्यय तथा विभक्तिकार्य ।।१२२३।
१२२४. ग्लहोऽक्षेषु [४।५।५२] [सूत्रार्थ
अक्षविषय में 'ग्रह उपादाने' (८।१४) धातु से अल् प्रत्यय होने पर रेफ को लकारादेश निपातन से होता हे ।।१२२४।
[दु०वृ०]
अक्षविषये वर्तमानाद् ग्रहेरलि लत्वं निपात्यते । ग्लहोऽक्षाणाम् । ग्लहः प्रकृत्यन्तरम् इत्येके, तदा प्रग्लाह इति घञि प्रत्युदाहरणम् ।।१२२४।
[दु० टी०]
ग्लहो० । ग्रहेरल् सिद्ध एवेत्याह- अलीत्यादि । प्रकृत्यन्तरपक्षेऽजपि निपातनादिति प्रत्युदाहरणं दर्शयति । अक्षशब्दोऽत्राविशेषात् सामान्यार्थो ग्रहीतव्यः । अत एव बहुवचनमुच्यते । भाष्ये तु न चिन्तितमेतत् ।।१२२४।
[वि०प०]
ग्लहो० । ग्रहेरल् सिद्ध एवेत्याह-अलि लत्वमिति ।प्रकृत्यन्तरेति । तेषां मतेऽल् निपात्यते इति घञा प्रत्युदाहरणं युज्यते ।।१२२४।