________________
४५६
कातन्त्रव्याकरणम्
की है। पाणिनि का सूत्र है – “परिन्योर्नीणो ताभ्रेषयोः' (अ०३।३।३७)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१. परिणायेन शारीनाहन्ति। परि + नी + घञ् +टा। ‘परि' उपसर्ग के उपपद में रहने पर ‘णीञ् प्रापणे' (१।६००) धातु से 'घ' प्रत्यय, वृद्धि, आय आदेश, णत्व तथा विभक्तिकार्य।
२. न्यायः। नि + इण + घत्र + सि। 'नि' उपसर्ग- पूर्वक 'इण गतौ' (२।१३) धातु से 'घञ्' प्रत्यय, वृद्धि, आय आदेश, इकार को यकार तथा विभक्तिकार्य।।१२०९।
१२१०. व्युपयोः शेतेः पर्याये [४।५।३८] [सूत्रार्थ
'वि-उप' उपसर्गों के उपपद में रहने पर पर्यायविषय में वर्तमान ‘शीङ् शये' (२।५५) धातु से 'घञ्' प्रत्यय होता है।।१२१०।
[दु० वृ०]
व्युपयोरुपपदयोः पर्यायविषये वर्तमानात् शेर्घञ् भवति। तव राजविशाय:, तव राजोपशायः। तव राजनि शयितं पर्याय इत्यर्थः। अस्मादेव ज्ञापकात् परिपूर्वादिण: क्रमेऽर्थे घञ् ।।१२१०।
[दु० टी०]
व्युप०। प्रकृत्यर्थस्यैव पर्यायो गम्यते इत्याह-पर्याय इत्यादि। अभिविधिविवक्षायामिह घञो वाभिधानात् । अस्मादेवेत्यादि। क्रमशब्दसमानार्थोऽयं पर्यायशब्दः, न तु विशिष्टक्रियाविषय इति ज्ञाप्यते। कथमेतत् क्रमपर्याययोरभिन्नार्थतेति। पर्यायो हि नामानुपूर्वं स च क्रमेण प्राप्तस्यानतिपातोऽनतिक्रमः परिपाटिरुच्यते, क्रमस्तु तत्पूर्वक: पर्याय., क्रमो नामानुपूर्वी यौगपद्यप्रतिपक्ष: इदं कृत्वेदं कार्यमिति? सत्यम्, नियमानियमाभ्यां भिद्यते, यथा अङ्कुरकाण्डकिसलयादीनां स्नानपानभोजनादीनां च, अत: क्रमपर्याययोर्नास्त्येव भेदः।।१२१०।
[वि० प०] व्युप०। अस्मादेवेति क्रमादन्यत्र पर्याय इत्यलेव भवति।।१२१०। [क० च०]
व्युपयोः। पर्याय: क्रमः अस्मादेवेति सूत्रे पर्यायग्रहणादित्यर्थः। ननु परिपूर्वादयधातोर्घजि पर्याय इति सिध्यति तत् किं ज्ञापकेनेति? सत्यम् , “उपसर्गस्यायतौ" इति लत्वेनाघ्रातत्वात्। अथ यथा अस्मादेव ज्ञापकादिणोऽल् न स्यात्, तथा परिपूर्वस्यायतेरपि न लत्वमिति कथं नोच्यते? सत्यम्, सूत्रे कृतं ज्ञापकं सूत्रविहितकार्यस्य बाधकं न वक्तव्यम्, विहितस्य सादृश्यात्। यद् वा विहितप्रत्ययप्रसङ्गेन ज्ञापकं प्रत्ययस्यैव बाधकं न त्वादेशस्य।।१२१०।