________________
४४१
चतुर्थे कृदध्याये पञ्चमो घादिपादः समुदायावयवयोरन्यत्वात् । यथा वृक्षे शाखा, शरीरे पाणिपादमिति समुदाय समुदायिनो भवत्याधेयता इत्यदोषः।। ११८६।
[वि०प०]
छन्दो०। वृत्तमिह छन्दो गृह्यते, यस्यानुष्टभादयो भेदाः, न तु मन्त्रब्राह्मणाः नामग्रहणात् । अन्यथा छन्दसीत्येवं ब्रूयात् । एवमपि मन्त्रब्राह्मणस्य ग्रहणं लभ्यते। यथा सहश्छन्दसीति। प्रस्तरणं प्रस्तारस्तस्य पङ्क्तिरिति। एवं विष्टारपङ्क्तिरिति। वे: स्तृणाते: संज्ञायां षत्वं सञ्ज्ञा च न घञ्मात्रम् , अपि तु समुदायः। अत एव छन्दोनाम्नीत्यधिकरणे सप्तमी। तत्र घजन्तोऽवयव: आधेयत्वेन प्रवर्तते। अत उक्तं छन्दसां सज्ञाविषय इति, न तु गम्यमाने छन्दोनाम्नीति घजन्तमात्रे तस्याप्रतीतेः।।११८६।
[क० च०]
छन्दो०। न तु मन्त्रब्राह्मण इति। अथ मन्त्रब्राह्मणशब्देन वेद उच्यते, यदि रूढ्याश्रयणाच्छन्दसीत्युक्ते वृत्त एव भविष्यति तदा सुखार्थं नामग्रहणम् ।।११८६।
[समीक्षा]
'विष्टारपङ्क्तिः ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है-“छन्दोनाम्नि च'' (अ०३।३।३४)। अत: उभयत्र समानता ही है।
[विशेष वचन] १. छन्द इहानुष्टुभादिर्गृह्यते (दु० टी०)। २. वृत्तमिह छन्दो गृह्यते (वि० प०)। ३. सुखार्थं नामग्रहणम् (क० च०)। [रूपसिद्धि
१-३. प्रस्तारपङ्क्तिः । प्र + स्तृ + घञ् + सि। आस्तारपङ्क्तिः । आ + स्तृ + घञ् + सि। विष्टारपङ्क्तिः । वि + स्तृ + घञ् + सि। 'प्र - आ - वि' उपसर्गों के उपपद में रहने पर ‘स्तृ' धातु से 'घञ्' प्रत्यय, इज्वद्भाव, ऋकार को वृद्धि तथा विभक्तिकार्य।।११८६।
११८७. प्रे द्रुस्तुनुवः [४।५।१५] [सूत्रार्थ
'प्र' उपसर्ग के उपपद में रहने पर 'द्रु-स्तु-स्रु' धातुओं से ‘घञ्' प्रत्यय होता है।।११८७।
[दु० वृ०]
'प्र' - उपपदे एभ्यो घञ् भवति। प्रद्राव:, प्रस्तावः, प्रस्राव:। कथं द्राव:? अप्यधिकारात् । प्र-इति किम् ? द्रवः, स्तव:, स्रवः।।११८७