________________
अथ चतुर्थे कृत्प्रत्ययाध्याये पञ्चमो घञ्प्रत्ययादिपादः
११७३. पदरुजविशस्पृशोचां घञ् [४।५।१] [सूत्रार्थ] 'पद् - रुज् - विश् - स्पृश् - उच्' धातुओं से ‘घञ्' प्रत्यय होता है।।११७३। [दु० वृ०]
एषां घञ् भवति। घानुबन्धश्चजो: कगाविति कत्वगत्वार्थः, आनुबन्ध इज्वद्भावार्थः। पद्यते, पत्स्यते, अपादि, पेदे वा - पादः। एवं रोग:, वेश:। स्पर्शो नाम क्षयो व्याधिश्च। ओकः।।११७३।
[दु० टी०]
पद०। पदे: “वुण्तृचौ' (४।२।४७) इति तृचि प्राप्ते नाम्युपधत्वाद् रुजविशस्पृशोचां के प्राप्ते कर्तरि घञ् विधीयते। क्षयो व्याधिश्चेति चकारेणान्योऽपि कर्ता ख्यायते। स्पृशतीति स्पर्शो देवदत्तः। कम्बलं स्पृशतीति कम्बलस्य स्पर्शो देवदत्तः इति वस्तुगुण: स्पर्श:। स्पृश्यते इति "अकर्तरि च कारके संज्ञायाम्' (४।५।४) इति घञ् । यद्येवं सूत्रेणापि किम् ? पद्यते पत्स्यते वाऽनेनेति पादः कायैकदेशश्चतुर्भागादि। रुजत्यनेनेति रोगो व्याधिः। विशत्यस्मिन् मनो यूनामिति वेशो वेश्यागृहम् । यूनां मन:स्वधिकं विशतीति कर्तरि वा । उच्यति समवैत्यस्मिन् ओको गृहम् । उच्यतीति कर्तरि सज्ञाशब्दत्वात् तृजादयो न भवन्तीति वक्ष्यति। प्रपञ्चा) पदिग्रहणमिति पदीतीहोपलक्षणम्। परस्तूचेर्घञ् नाद्रियते, स्पृशेस्तु पचादौ पाठ इति स्पृशेः स्वरे विशेष इत्युच्यते।।११७३।
[वि० प०]
पद०। इह कालस्यानिर्दिष्टत्वाद् भविष्यदधिकारस्यापि पादान्तरितत्वात् सामान्ये काले भवतीत्याह-पद्यते इति। क्षयो व्याधिश्चेति। चकारेणान्योऽपि कर्ता कथ्यते। स्पृशतीति स्पर्शो देवदत्त: इति।।११७३।
[समीक्षा]
'पादः, रोगः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "पदरुजविशस्पृशो घञ्' (अ० ३।३।१६)। अत: प्राय: उभयत्र समानता है। __ [रूपसिद्धि]
१. पादः। पद + घञ् + सि। पद्यते, पत्स्यते, अपादि, पेदे वा। ‘पद गतौ' (३।१०७) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, ‘घ - ञ्' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, “अस्योपधाया दी| वृद्धि मिनामिनिचटसु'' (३।६।५) से उपधादीर्घ तथा विभक्तिकार्य।
२-५. रोगः। रुज् + घञ् + सि। वेशः। विश् + घञ् + सि। स्पर्शः। स्पृश्