________________
४१३
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ४१३ ११६८. भविष्यति गम्यादयः [४।४।६८] [सूत्रार्थ 'गमी' इत्यादि उणादिप्रत्ययान्त शब्द भविष्यत्काल में साधु होते हैं ।।११६८। [दु० वृ०]
गमीत्येवमादय: शब्दा औणादिका भविष्यति काले साधवो भवन्ति। गमादिभ्यो भविष्यत्कालवृत्तिभ्य इन् स्यादित्यर्थः । ग्रामं गमी, ग्राममागामी, भावी, स्थायी । श्वस्तनीविषयेऽपि - श्वो ग्रामं गमी । पदार्थश्वस्तने - श्वो ग्रामं गन्तेति प्राप्तम् ||११६८।
[दु० टी०]
भवि०। श्व इत्यादिपक्षे श्वस्तन्यपि नापवादोऽभिधानात् । संज्ञाविहितत्वाच्चात्र पदार्थोऽत्र भविष्यत्सामान्यम् , स च शास्त्रे कार्याङ्गम्, वाक्यार्थश्च श्वस्तनार्थस्तस्माद् भविष्यत्सामान्यपरिग्रहणे शब्दसंस्कारवति निवृत्ते पश्चात् श्व:शब्द उपनीयते बाह्यरूपं श्वस्तनार्थं बोधयति, स तु विशेष: सामान्ये न विद्यते एव न सामान्यप्रत्ययस्य निवृत्तिः, सामान्योपक्रमविशेषाभिधानमस्तीति श्व:शब्दोऽपि युज्यते । यदा तु विशेष एव पदार्थत्वेन विवक्ष्यते, भवितव्यमेव तदा अपवादेन - श्वो ग्रामं गन्तेति । यस्त्वाह - श्व:शब्दोऽत्र श्वस्तनविषय इति प्रतिपादकः, न त्वसौ शब्दोऽत्र युज्यते इति । अत: प्रयोगे निमित्ताभाव इति, तदसत् । एवं 'प्रस्थायी, प्रतिरोधी, प्रयामी' षडेव गम्यादयः ।।११६८।
[वि० प०]
भविष्यति०। इन्निति । निरनुबन्धः सामान्येन निर्दिश्यते । आगामीत्यादिषु णिनिरयं प्रत्ययः । तथा च सत्युपधाया दीर्घत्वमायिरादेशो वृद्धिश्च णानुबन्धत्वात् । एवं 'प्रस्थायी, प्रतिरोधी, प्रमादी' षडेव गम्यादयः। श्वस्तनीत्यादि । ननु पदार्थश्वस्तने श्वस्तनी भवति । अत्र तु श्व:शब्दसान्निध्याद् वाक्यार्थ एव श्वस्तन: प्रतीयते । तत्कथं श्वस्तनीविषयता ? नैवम् । इहापि पदार्थ एव श्वस्तन:, तदभिद्योतनार्थ एव श्व:शब्दः प्रयुज्यते । अत एवाह - पदार्थ इति । अन्यथा तदेव स्यात् , विशेषविहितत्वात् । श्वस्तन्या इति । तेन पक्षे श्वस्तन्यपि भवति ।।११६८।
[क० च०]
भविष्यति०। इदमपि परिभाषासूत्रम्। गम्यादयो डौणादिका: शब्दाः पूर्वेण वर्तमानेऽतीते च स्युरिति पूर्वस्य बाधकम् । निर्गलितार्थमाह - गमादिभ्य इति । ननु इनिति कथमुक्तम् आगामीत्यादौ णिनिरपि दृश्यते ? सत्यम् । इनिति उत्सृष्टानुबन्धो णिनिरपि गृह्यते । अत एव पञ्जिकायामुक्तम् इनीति । श्वस्तनीविषयेऽपीति वृत्तिः। ननु श्व:शब्दादत्र श्वस्तनकाल एव प्रतीयते, अतो वाक्यार्थ एवात्र श्वस्तनः, न चात्र श्वस्तनी