________________
३९६
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१-७. दीप्रः। दीप् + र + सि । कम्पः। कम्प् + र + सि। अजस्त्रः। नञ् + जस + र + सि । हिंस्रः। हिन्स् + र + सि । कम्रः । कम् + र + सि । स्मेरः। स्मि + र.+ सि । नम्रः। नम् + र + सि । सामान्यतया सम्बद्ध धातुओं से 'र' प्रत्यय तथा विभक्तिकार्य । ‘स्मेरः' में गुणादेश ।। ११५० ।।
११५१. सनन्ताशंसिभिक्षामुः [४।४।५१] [सूत्रार्थ
सनन्त धातुओं तथा आङ् उपसर्गपूर्वक शंस् - भिक्ष धातुओं से ताच्छील्य इत्यादि अर्थों में 'उ' प्रत्यय होता है ।। ११५१ ।
[दु० वृ०]
सनन्तस्याशंसेभिक्षेश्च उर्भवति तत्छीलादिषु। चिकीर्षुः। 'आङ: शसि इच्छायाम्' इति न्याय्यः पाठः-आशंसुः, भिक्षुः। अन्तग्रहणं 'षणु दाने' (७।२) इति शङ्कानिरासार्थम्।।११५१।
[दु० टी०]
सन०। आङ् इत्यादि। आङा सह निर्देशादिति भावः। न 'शंसु स्तुतौ' (१।२।४१) इत्यस्य ग्रहणम्। अन्तेत्यादि। यदि वा 'षण सम्भक्तो' (१।१५५) इति जिगीषुशब्दस्य गर्गादिपाठात् सन् प्रत्यय एवेति। ज्ञापको गरीयानिति भावः।।११५१।
[वि० प०]
सन०। आङ इत्यादि। न्याय्यत्वं पुनराङा सह निर्देशात्. न तु 'शंसु स्तुतौ' (१।२४१) इत्यस्येति।।११५१।
[क० च०]
सन० । अन्तग्रहणमिति । 'षण संभक्तो' (१।१५५) इत्यस्याशङ्कानिरासार्थम्। ननु कथमेतद् यावता 'षणु दाने, षण संभक्तौ' (७।२,१,१५५) इत्युभयोरपि मूर्धन्यणकारान्तत्वात् कुतः सन्देहः, सत्यम्। षण इति निर्देशे 'षणु दाने, षण सम्भक्तो' (७।२१।१५५) इत्यनयोः 'धात्वादेः षः सः' (३।८।२४) इति कृते निमित्ताभावे मूर्धन्यणकारान्तस्याभावेऽपि सन इति रूपस्य विद्यमानत्वात् सन्देहः स्यात्। एतच्च शङ्कामानं तदा हि निःसन्देहाथ पणेत्यकृतसत्त्वमत्र विदध्यात् । षणीति इनिर्देशो वा । यद् वा सनन्ताद् उप्रत्ययाभावे जिगीषुशब्दो न साधुः, कथं तस्य गर्गादौ पाठः इति सन् प्रत्यय एवावसीयते || ११५१ ।
[समीक्षा]
'चिकीर्षुः, आशंसुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'उ' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है-“सनाशंसभिक्षामुः" (अ० ३।२।१६८)। अत: उभयत्र समानता ही है ।