________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
१०८०. कर्मण्युपमाने त्यदादौ दृशष्टक्सको च [४।३।७५]
[ सूत्रार्थ]
उपमान त्यदादि के उपपद में रहने पर उपमेय कर्म अर्थ में 'दृशिर् प्रेक्षणे' (१।२८९) धातु टक्, सक् तथा क्विप् प्रत्यय होता है ।। १०८० । [दु० वृ०]
11
त्यदादावुपमाने उपपदे कर्मण्युपमेयेऽर्थे कर्मणि दृशष्टक्सकौ भवतः क्विप् च । स्य इव दृश्यते त्यादृशः, त्यादृशी, त्यादृक्षः त्यादृक् । स इव दृश्यते तादृशः, तादृशी, तादृक्ष:, तादृक् । एषु समानस्य स इति सदृशः, सदृशी, सदृक्षः, सदृक्। 'आ सर्वनाम्नः " ( ४/६/६९ ) इति वचनात् अन्यादृशः, अन्यादृशी, अन्यादृक्षः, अन्यादृक्। त्यदादाविति किम् ? वृक्ष इव दृश्यते । उपमान इति किम् ? स दृश्यते । कर्मणीति किम् ? स इव पश्यति ॥ [दु० टी०]
१०८० ।
कर्म । समानान्ययोश्चेति न वक्तव्यमित्याह- एष्वित्यादि । आत्यादि । आत्यदादाविति सिद्धे यद् "आ सर्वनाम्नः " ( ४/६/६९) इत्याह, तद् बोधयति - अन्यशब्देऽपि भवतीति । ज्ञापकज्ञापिताश्च विधयो लक्ष्यमनुसरन्तीति भावः । त्यदादयो द्विपर्यन्ताः सर्वनामसु पठ्यन्ते । तुल्यतयोपलभ्यमानस्य सदृशादिशब्दवाच्यत्वादवयवार्थावगमेनार्थभावे (?) तादृश्यादिशब्दानां वृत्तिरिति तथैवान्वाख्यानं युक्तं न रूढिवदिति व्यासनिर्देशाश्रयणम्। कश्चिद् आह- कर्मणति त्यादिविशेषणं तर्हि नास्ति कर्तत्वं तुल्यधर्मातिदेशमात्रं यादृशो ग्रामस्तादृशं नगरमिति । नैवम् । धर्मोऽपि गम्यते अन्यथा सदृशो ग्रामस्येति स्यात्, तमेवाऽऽत्मानं पश्यति तादृगिति । ननु कर्मकर्तृत्वमेव दुर्घटम्, न हि भवति कुशूलमिवात्मानं बिभर्ति भिद्यते कुशूल इति। न च कर्मकर्त्रर्थोऽत्र निर्दिष्टो मन्यते । रूढिशब्दा इमे यथाकथञ्चिद् व्युत्पाद्या इतीवार्थो बाधककर्मकर्त्रर्थो दृश्यते इति ।। १०८० ।
-
३०३
,
[वि० प० ]
कर्मणि० । “आ सर्वनाम्नः " ( ४।६।६९) इत्युपपदस्यात्वम् । समानान्ययोश्चेति न वक्तव्यम् इत्याह- एष्वित्यादि । न ह्यन्यथा दृग्दृशदृक्षेषु समानस्य स इति वचनम् उपपद्यते इति भावः । एवम् आ त्यदादेरिति सिद्धे यद् आ सर्वनाम्नः इति ब्रवीति तज्ज्ञापयति- त्यदादेरन्यस्यापि दृगादिष्वात्वमिति, अतोऽन्यशब्देऽपि उपपदे दृशेष्टगादयः प्रत्ययास्तथा सत्यात्वमित्याह- आ सर्वनाम्न इति ।। १०८० ।
[क० च०]
कर्म ० ० । उपमीयते येन तद् उपमानम् । ननु कर्मणीति संनिहितत्वादुपमान इति त्यदादेर्विशेषणं कथं न स्यात् ततश्च कर्मण्युपमाने त्यदादावुपपदे कर्तरि स्याताम्, यथा