________________
कातन्त्रव्याकरणम्
पूर्ववदिहाप्यभावात् । सत्यप्यस्मिन् परिहारे मतान्तरविवक्षया परिहारान्तरमाहताच्छीलिकत्वाद् इति। ताच्छील्ये कर्तरि तयोर्विधानादिति एतदुक्तं भवति । ताच्छील्यं हि तत्स्वभावः । अभूततद्भावश्चावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः, स चाधेयत्वान्न स्वभाव इति । कथन्ताच्छील्ये विहितौ च्व्यन्ते उपपदेऽभूततद्भावे भवत इति। इडागमेनैव सिध्यतीत्याह इकार इति । अन्यथा खकारस्य प्रथमत्वे कानुबन्धाशङ्कायां "न श्र्युवर्णवृतां कानुबन्धे " (४।६।७९) इतीट्प्रतिषेधो गुणाभावश्च स्यात्। अत्र च प्रतिवक्तव्यम् अघोषे प्रथमं न करिष्यामः इति । एवं सति कष्टं स्यादित्यर्थः । तथेति । "कर्तरि कृतः " ( ४|६|४६ ) इत्यविशेषेणैव सिद्धम् । न च नग्नादिसहचरितं करणम् इह वर्तते, पृथग् योगाद् इष्टतश्चाधिकाराणां प्रवृत्तिर्निवृत्तिश्चेति वा ||१०६३ ।
२८६
―
[क० च०]
भुवः । ताच्छीलिकत्वादिति । यस्य मते नग्नादौ व्यक्तिव्याख्या नास्ति पूर्वत्र नग्नीकरणमित्येव भवति, तन्मतेऽयं सिद्धान्तः । ननु ताच्छीलिकत्वान्नास्त्यभूततद्भाव इति कथमुक्तम् । न च आढ्यीभवितेत्यत्राभूततद्भावो नास्ति । न त्वभूततद्भावस्तयोरनुपपत्तौ कारणम् ? सत्यम् । एवं योज्या वृत्तिः । ताच्छीलिकत्वात् ताच्छील्ये कर्तरि तयोर्विधानात् न परावपि इष्णूकञाविति । तत्रापि ताच्छील्यं विवक्ष्यते इत्याह नास्तीति । अभूततद्भावे नास्ति ताच्छील्यमिति शेषः । वस्तुतस्तु यथाश्रुतसम्बन्ध एव घटते तथाहि ताच्छील्ये कर्तरि तयोर्विधानात् तयोर्विषये नास्त्यभूततद्भाव इति हेतोः ‘आढ्यीभविता' इत्यत्राभूततद्भावेन परावपि इष्णूक न भवतः || १०६३।
[समीक्षा]
'आढ्यम्भविष्णुः, प्रियम्भावुकः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में प्राय: समान प्रत्यय किए गए हैं । पाणिनि का सूत्र है "कर्तरि भुवः खिष्णुच्खुकञौं” (अ० ३।२।५७) । इस प्रकार पाणिनीय व्याकरण में चकारानुबन्ध को छोड़कर अन्य सभी प्रकार की उभयत्र समानता ही है ।
―
[विशेष वचन ]
१. इकारः सुखार्थ : (दु० वृ० ) ।
२. पृथग्योगाद् इष्टतश्चाधिकाराणां प्रवृत्तिर्निवृत्तिश्चेति वा (वि० प० ) ।
[रूपसिद्धि]
→
१. नग्नम्भविष्णुः । नग्न भू + खिष्णु + सि । अनग्नो नग्नो भवति । 'नग्न' शब्द के उपपद में रहने पर 'भू सत्तायाम् ' (१।१) धातु से प्रकृत सूत्र द्वारा 'खिष्णु' प्रत्यय, ‘ख्’ अनुबन्ध का प्रयोगाभाव, मकारागम, धातुघटित उकार को गुण, अवादेश तथा विभक्तिकार्य ।
+
२. नग्नम्भावुकः । नग्न भू खुकञ् + सि । अनग्नो नग्नो भवति । 'नग्न' शब्द के उपपद में रहने पर 'भू' धातु से 'खुकञ्' प्रत्यय, मकारागम, ऊकार को वृद्धि, आव् आदेश तथा विभक्तिकार्य ।