________________
२७४
कातन्त्रव्याकरणम्
भवतः। भुजगः, तुरगः, प्लवगः, पुरगः, पतगः, अन्तगः, अत्यन्तगः, ग्रामगः, अध्वगः, दूरगः, पारगः, सर्वगः, सर्वत्रगः, पन्नगः, गुरुतल्पगः । सुगः, दुर्गः, निर्गो देश: । नगः, अगः, तीरगः, पीठग:, उरगः, विहगः ।।१०५२।
[वि० प०]
डो० । सुगो दुर्गः इति । सुखेन गम्यतेऽस्मिन् इत्यधिकरणे, तथा नि:शेषेण गम्यतेऽस्मिन्निति निर्गो देश एवोच्यते । नगः, अगः इति । तत्र क्वचिदधिकारात् "नस्य तत्पुरुषे लोप्यः'' (२।५।२२) इति नगस्याप्राणिनि नलोपो वा दृश्यते । सर्वत्र डानुबन्धेऽन्त्यस्वरादिलोपः ।।१०५२।
[क० च०]
डो० । तुरस्त्वरावान् गच्छतीति तुरगः। पुरतीति पुरः, पुरः सन् गच्छतीति पुरगः। पततीति पतः, पत: सन् गच्छतीति पतगः इत्यादि ।।१०५२।
[समीक्षा
'दूरगः, पन्नगः, पारगः' इत्यादि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में 'ड' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है – “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड:' (अ० ३।२।४८) । पाणिनि द्वारा सूत्र में पठित शब्दों से अतिरिक्त शब्दों में 'ड' प्रत्यय होता है । अत: पाणिनीय परिगणन की अपेक्षा कातन्त्रीय अभिधानाश्रय ही समीचीन कहा जा सकता है । अतः यहाँ कातन्त्र का उत्कर्ष सिद्ध है । _[रूपसिद्धि]
१. भुजगः। भुज + गम् + ड + सि । भुजाभ्यां गच्छति । 'भुज' के उपपद में रहने पर 'गम्ल गतौ' (१।२७९) धातु से प्रकृत सूत्र द्वारा 'ड' प्रत्यय, 'ड्' अनुबन्ध का प्रयोगाभाव, ‘ड्' अनुबन्ध के कारण ‘अम्' का लोप तथा विभक्तिकार्य ।
२-१५. तुरगः। तुर + गम् + ड + सि । तुरस्त्वरावान् गच्छति । प्लवगः। प्लव+ गम् + ड + सि । पुरगः। पुर + गम् + ड + सि । पुरतीति पुरः, पुरः सन् गच्छति । पतगः। पत + गम् + ड + सि । पततीति पत:, पत: सन् गच्छति । अन्तगः। अन्त + गम + ड + सि । अत्यन्तगः। अत्यन्त + गम् + ड + सि । ग्रामगः। ग्राम+ गम् + ड + सि । अध्वगः। अध्वन् + गम् + ड + सि । दूरगः। दूर + गम् + ड+ सि । पारगः। पार + गम् + ड + सि । सर्वगः। सर्व + गम् + ड + सि । सर्वत्रगः। सर्वत्र + गम् + ड + सि । पन्नगः। पन्न + गम् + ड + सि । गुरुतल्पगः। गुरुतल्प+ गम् + ड + सि । प्रक्रिया पूर्ववत् ।।१०५२।
[विशेष]
'सुगः, दुर्गः, निर्गः, नगः, अगः, तीरगः, पीठगः, उरगः, विहगः' प्रयोग भी द्रष्टव्य हैं ।