________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २५१ विद्या यशस्करी। ताच्छील्ये - श्राद्धकर: । आनुलोम्यम् अनुकूलता - वचनकरः। अशब्दादिष्विति किम्? शब्दकारः, श्लोककार:, कलहकारः, गाथाकारः, वैरकारः, चाटुकार:, सूत्रकारः, मन्त्रकारः, पदकार:। हेत्वानुलोम्ययोरविवक्षा स्थितैव । ताच्छील्ये स्यादिति वर्जनम्। कथं कुम्भादिकरणशीलाः कुम्भकारादय इति? अभिधानात् ।।१०२७।
[दु० टी०]
कृञो० । ननु ताच्छील्यमिति किमों भावप्रत्ययनिर्देशः प्रकृतस्य कर्तुर्विशेषणमास्तां तच्छीले कर्तरीति? सत्यम्, वैचित्र्यार्थमेव। तर्हि तद्ग्रहणं किमर्थम्, तच्छब्देन धात्वर्थों निर्दिश्यते तदेव शीलमस्योति श्रुतत्वाद् धात्वर्थ एव प्रतीयते? सत्यम्। प्रतिपत्तिगौरवनिरासार्थमेव। तथा आनुलोम्यमिति भावप्रत्ययः। प्रतीतेत्यादि। "कारयति यः स हेतुश्च" (२।४।१५) इति न गृहीत इति हेतुमाह - कृञोऽनिनन्तत्वादिति । यद्यपि प्रवृत्तक्रियस्य कर्तुर्न हेतुत्वव्यभिचारस्तथापि हेतुर्विशेषणम् अप्रवृत्तक्रियेऽपि प्रतीतशक्तिके यथा स्यात् । विद्याया यशस्करणे सार्यम् अन्यत्र प्रसिद्धमिति यशोऽकरणेऽपि टप्रत्ययः सिद्धो भवति । श्राद्धं पितृक्रिया तत् कर्तव्यमित्येवं फलानपेक्षया य: करोति स उच्यते श्राद्धकरः। अनुकूलता आराध्यचित्तानुवृत्तिः । यदि शब्दादिकरणशीला: शब्दकारादय इति प्रतिषिध्यते, तदा कुम्भादिकरणशीलेष्वपि प्रतिषेधो वक्तव्य इत्याह - कथमित्यादि । अभिधानादिति । अणन्त एवाभिधीयते इत्यर्थः । हेत्वाद्यर्थविवक्षायां वेत्यर्थः । शब्दकारादयोऽप्येवम् भविष्यन्तीति दुःखबोधम् ।।१०२७।
[वि० प०]
कृञो० । प्रतीतेत्यादि । "कारयति यः स हेतुश्च" (२।४।१५) इति प्रयोजको हेतुरिन्प्रत्ययवाच्यस्तदभावे लौकिक एव हेतुरित्यर्थः । तर्हि किं हेतुग्रहणेन ? कर्तरि कृद् भवति । कर्ता च क्रियां कुर्वन् हेतुरेवेति ? सत्यम् , अकुर्वतापि कर्तरि प्रतीतशक्तिके यथा स्यादिति । तेन विद्या यशस्करीति । विद्याया यशस्करणे प्रतीतशक्तिके यथा स्यादिति । तेन विद्या यशस्करीति । विद्याया यशस्करणे प्रतीता शक्ति: क्वचिद् यशोऽकरणेऽपि टप्रत्ययोत्पत्तिविघातो न भवतीति । श्राद्धं पितृक्रिया, तत् कर्तव्यमित्येवं यः फलानपेक्षया क्रियां करोति स श्राद्धकरः । यदि शब्दादिकरणशीलत्वात् शब्दकारादिषु ताच्छील्ये टप्रत्यय: स्यादिति प्रतिषिध्यते, तदा कुम्भादिकरणशीलेष्वपि प्रतिषेधो वक्तव्यः, कथमन्यथा तेष्वणिति न देश्यम् , परिहारमाह - कथमित्यादि ।।१०२७।
[क० च०]
कृत्रो० । प्रतीतेति । प्रतीता शक्तिर्यस्य । एतेन फलसाधनयोग्यपदार्थों हेतुरेवेति निश्चितम् । ननु 'देवदत्त: कटकारः' इत्यत्र कथन टप्रत्ययः । न च वाक्यं हेतुग्रहणमनर्थकम्। विद्या यशस्करीति योग्यतायां चरितार्थत्वात् । अन्यथा यशोऽकरणेऽपि हेतुत्वाभावात् कथं टप्रत्ययः, किन्तु फलोपधायको हेतुरेव स्यात् ? सत्यम् । तदा