________________
२५०
कातन्त्रव्याकरणम्
[दु० टी०]
पूर्वशब्दस्य सम्बन्धिशब्दत्वात् सापेक्षत्वात् सापेक्षस्यापि गुरुदासादीनामिव गमकत्वात् समास: ।।१०२६।
[वि० प०]
पूर्वे० । कस्मादित्यादि । ननु यद्यपि नावध्यन्तरं विवक्षितम्, तथापि पूर्वशब्दस्य सम्बन्धिवचनत्वात् सम्बन्ध्यन्तरेणापेक्षाऽस्त्येवेति चेत् ? सत्यमेतत् , तथापि सम्बन्धिशब्देषु वृत्तिर्गमकत्वाद् यथा गुरुदासः, गुरुकुलमिति ।।१०२६।
[क० च०] ___ पूर्वे० । पञ्जिका नन्विति । अथ कस्मात् पूर्व इति विवक्षयैव सापेक्षत्वानवत्तौ सिद्धान्तो दत्तः, तत्कथमनेन देश्यमाशङ्कयते ? सत्यम् । प्रत्ययोत्पत्तिं प्रति वृत्तौ कस्मात् पूर्व इति अविवक्षेत्युक्तम् अनेन तु समासं प्रति युक्तिरुक्ता । अथ वृत्तो सामान्यवचनात् समासं प्रत्यपि बोद्धव्यं चेद् अयमाशयः-समासं प्रति नायं सिद्धान्तो दातव्यः, अन्य एव सिद्धान्तो विद्यते यतः यद्यपीति न विध्यन्तरं विवक्ष्यते । प्रत्ययोत्पत्तिं प्रतीत्यर्थः, सम्बन्ध्यन्तरापेक्षाऽस्त्येवेति समासं प्रत्येवेत्यर्थः ।।१०२६।
[समीक्षा
'पूर्वसरः, पूर्वसरी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'ट' प्रत्यय किया गया है । पाणिनि का सूत्र है – “पूर्वे कर्तरि' (अ० ३।२।१९) । अत: उभयत्र समानता है ।
[रूपसिद्धि
१. पूर्वसरः, पूर्वसरी । पूर्व + सृ + ट + सि । पूर्वः सरति । कर्तृवाची 'पूर्व:' शब्द के उपपद में रहने पर 'सृ गतौ' (११२७४) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, 'ट' अनुबन्ध का प्रयोगाभाव, धातुगत ऋकार का “नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।५।१) से गुणादेश तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय-पूर्वसरी ।।१०२६। १०२७. कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलह
गाथावैरचाटुसूत्रमन्त्रपदेषु [४।३।२२] [सूत्रार्थ]
शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र एवं पद से भिन्न कर्मसंज्ञक शब्दों के उपपद में रहने पर हेतु-ताच्छील्य-आनुलोम्य अर्थों में 'डु कृञ् करणे' (७।७) धातु से 'ट' प्रत्यय होता है ।।१०२७।
[दु० वृ०]
अशब्दादिषु कर्मसूपपदेषु हेतौ कर्तरि, ताच्छील्ये, आनुलोम्ये च गम्यमाने कृञष्टो भवति । प्रतीतशक्तिकं कारणं हेतुरिह गृह्यते, कृञोऽनिनन्तत्वात् । हेतौ -