________________
२४७
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३. शंवदः । शम् + वद् + अच् + सि । शं वदति । ‘शम्' पूर्वक ‘वद व्यक्तायां वाचि' (१।६१५) धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ।
४. शंवरः । शम् + वृ + अच् + सि । शं वृणुते । 'शम्' पूर्वक 'वृञ् वरणे' (४८) धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ॥१०२२॥
१०२३. शीङोऽधिकरणे च [४।३।१८] [सूत्रार्थ
अधिकरण के उपपद में रहने पर 'शीङ् स्वप्ने' (२।५५) धातु से 'अच्' प्रत्यय होता है ।।१०२३।
[दु० वृ०]
अधिकरणे च नाम्न्युपपदे शेतेरज् भवति । खे शेते खशयः। चकारात् पार्श्वदौ करणे। पार्श्वेन शेते पार्श्वशयः। एवं पृष्ठशयः। उदरशय: । दिग्धेन सह शेते दिग्धसहशयः इति समासद्वयम् । उत्तानादिषु कर्तृषु - उत्तानः शेते उत्तानशयः ।।१०२३।
[दु० टी०]
शीङो० । चकारेण नामाधिकारो न विहन्यते तर्हि अधिकरणग्रहणं किमर्थम् , नामाधिकारस्य लक्ष्यानुरोधार्थम् । तेन पार्थादीनां च करणत्वादुपसंख्यानम् ‘दिग्धसहपूर्वाच्च' इति लब्धम् । समासद्वयमिति । उपपदसमासे पश्चात् कारकसमास इत्यर्थः ।।१०२३।
[वि० प०]
शीङो० । समासद्वयमिति । सह शेते सहशयः, दिग्धेन सह शेते दिग्धसहशयः इत्युपपदसमासे पश्चात् कारकेण सह समास: । दिग्धेन सह: दिग्धसहः इति कारकेण सह समास: । दिग्धेन सहः दिग्धसहः इति कारकसमासे पश्चादुपपदसमास इत्यन्ये । उत्तानादिष्विति । एवम् ऊर्ध्वमुखशयः, अवाङ्मुखशयः, प्राङ्मुखशय इत्यादि ।।१०२३।.
[क० च०]
शीङ् । अधिकरण इति न प्रत्ययविशेषणम् , सोपपदप्रस्तावात् । ननु बहुव्रीहिसमाससूत्रे बहुग्रहणाद् बहुव्रीहिरेव बहुपदे । नान्यः समास इति नियमात् कथं दिग्धसहशयः इति बहुपदेऽन्यसमास इत्याह – दिग्धेनेति विषाक्तेनेत्यर्थः ।।१०२३।
[समीक्षा]
'खशयः, गर्तशयः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है – “अधिकरणे शेतेः' (अ० ३।२।१५) । अत: प्राय: उभयत्र समानता ही है । करण तथा कर्ता कारक के उपपद में रहने पर अच् प्रत्यय के लिए वार्त्तिक-सूत्रों की रचना की गई है ।
[रूपसिद्धि]
१. खशयः। ख + शीङ् + अच् + सि । खे शेते । 'खे' इस अधिकरण के उपपद में रहने पर 'शीङ् शये' (२।५५) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, धातुगत ईकार को गुण, एकार को अय् आदेश तथा विभक्तिकार्य ।