________________
२४६
कातन्त्रव्याकरणम्
के उपपद में रहने पर 'रम् क्रीडायाम्' (१।५६१) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, सप्तमी विभक्ति का अलुक् तथा विभक्तिकार्य ।
२. कर्णेजपः सूचकः । कर्ण + जप् + अच् + सि । कर्णे जपति । 'कर्ण' के उपपद में रहने पर ‘जप मानसे च' (१।१३५) धातु से अच् प्रत्यय आदि कार्य पूर्ववत् ।।१०२१।
१०२२. शम्पूर्वेभ्यः सज्ञायाम् [४।३।१७] [सूत्रार्थ
सञ्ज्ञा के गम्यमान होने पर 'शम्'-पूर्वक धातुओं से 'अच्' प्रत्यय होता है ।।१०२२।
[दु० वृ०]
शम्पूर्वेभ्यो धातुभ्यः सज्ञायां गम्यमानायाम् अज् भवति । शं करोतीति शङ्करः। एवं शम्भवः, शंवदः, शंवरः । शम् पूर्वो येभ्यो धातुभ्यः इति बहुव्रीहिणा कृञो हेत्वादिष्वपि टो बाध्यते । तेन 'शङ्करा' नाम परिव्राजिका ||१०२२।
[दु० टी०]
शम्। शमि सज्ञायामिति सिद्धे पूर्वग्रहणं किमर्थम् इत्याह – शम्पूर्व इत्यादि। बहुवचनेन व्यक्तिरवधार्यते तबलाट्टो बाध्यते इति । ननु बहुवचनं रमिजपोर्निवृत्त्यर्थं कथन स्यात् कर्मानुवर्तनात् , तर्हि कथं सम्भवस्तस्मानामाधिकारोऽनुवर्तिष्यते, न तु कर्मणीति वर्तते । तर्हि उभयेनापि सम्बन्धो भविष्यति, न च वक्तव्यं सज्ञावशादभिधानाद् वा प्रतिपत्तिगौरवं स्यात् ।।१०२२॥
[वि० प०]
शम्पू० । शमि सज्ञायामिति सिद्धे किमर्थं पूर्वग्रहणमित्याह – शम्पूर्व इत्यादि। बहुवचनेन व्यक्तिरवधार्यते, ततः कृत्रो हेत्वित्यादिना प्राप्तष्टप्रत्ययो न भवति, स्याच्चेत् तदा "स्त्रियामादा" (२।४।४९) न स्यात् ।।१०२२।
[समीक्षा
'शङ्करः, शम्भवः, शंवदः, शंवरः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है – “शमि धातोः सज्ञायाम्' (अ० ३।२।१४) ।
[विशेष वचन] १. बहुवचनेन व्यक्तिरवधार्यते (द० टी०, वि० प०) । २. न च वक्तव्यं सज्ञावशादभिधानाद् वा प्रतिपत्तिगौरवं स्यात् (दु० टी०) । [रूपसिद्धि]
१. शङ्करः । शम् + कृ + अच् + सि । शं करोति । 'शम्' शब्द के उपपद में रहने पर 'डु कृञ् करणे (७।७) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, “नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (३।५।१) से धातुघटित ऋकार को गुणादेश, ‘म्' को अनुस्वार, परसवर्ण तथा विभक्तिकार्य ।
२. शम्भवः । शम् + भू + अच् + सि । शम् भवति । 'शम्' पूर्वक 'भू सत्तायाम्' (१।१) धातु से 'अच्' प्रत्यय आदि प्रक्रिया पूर्ववत् ।