________________
२३७
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २३७ १०११. तुन्दशोकयोः परिमृजापनुदोः [४।३।६] [सूत्रार्थ]
'तुन्दम् - शोकम्' इन कर्म-उपपदों के रहने पर क्रमश: ‘परि' पूर्वक 'मृज' धातु से तथा 'अप' पूर्वक 'नुद' धातु से 'क' प्रत्यय होता है ।।१०११।
[दु० वृ०]
तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुद्भ्यां यथासङ्ख्यं को भवति । तुन्दं परिमार्टि तुन्दपरिमृजः। अलस एवाभिधीयते । तुन्दपरिमार्जोऽन्यः । शोकमपनुदति शोकापनुदः। आनन्दकर एव । अन्यत्र शोकापनोदो धर्मकथक एव ।।१०११।
[दु० टी०]
तुन्द० । इह प्रकृतत्वात् कर्म वर्तते । अलसे सुखात् कर्तरि नाम्युपधलक्षणकप्रत्ययेनोदाहरणासिद्धि प्रतिपादयत्राह-कर्मणीति । कर्मण्यणि प्राप्ते कप्रत्ययो भवति। तुन्दपरिमार्जनं चोपलक्षणमलसस्येदं रूढिवचनम्। तथा दुःखमपहरन् यः शोकमपनयति स शोकापनुदः, न तु धदिशनया शोकमात्रमपनयति यः ।।१०११।
[वि०प०]
तुन्द० । अलस एवेति । तुन्दपरिमार्जनं चोपलक्षणं सर्व एवालस उच्यते । आनन्दकर एवेति । यः शोकदुःखमपहरन् पुत्रजन्मादिभिरानन्दं करोति स एव, न तु धर्मोपदेशनया य: शोकमपनयतीत्यर्थः ।।१०११।
[क० च०]
तुन्द० । तुन्दमुदरम् । आनन्दकर एवेति। शोकापहारकः सन् यदानन्दकरस्तदेव, न तु केवल: शोकापहार इत्यर्थः ।।१०११।
[समीक्षा
'तुन्दपरिमृज:, शोकापन्दः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "तुन्दशोकयोः परिमृजापनुदोः” (अ० ३।२।५) । अत: उभयत्र समानता ही है ।
[विशेष वचन] १. तुन्दपरिमार्जनं चोपलक्षणम् अलसस्येदं रूढिवचनम् (दु० टी०) । [रूपसिद्धि]
१. तुन्दपरिमृजः। तुन्द • परि + मृज् + क + सि । तुन्दं परिमार्टि । 'तुन्दम्' के उपपद में रहने पर 'परि' उपसर्गपूर्वक 'मृजू शुद्धौ' (२।२९) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव तथा विभक्तिकार्य ।
२. शोकापनुदः। शोक + अप + नुद् + क + सि । शोकमपनुदति । 'शोकम्' के उपपद में रहने पर ‘णुद प्रेरणे' (५।२) धातु से 'क' प्रत्यय आदि पूर्ववत् ।।१०११