________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२३५
पञ्जी - उपपदत्वाभाव इति । ननु उपकारि पदम् उपपदम् इति व्यवहितेऽपि तदस्त्येव, यथा 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः' इति वसतिपदव्यवधानेऽपि तदस्ति तुमः? सत्यम्, उपोच्चारि पदमिति पक्षमाश्रित्योक्तमिति कश्चित् ।
वस्तुतस्तु यदत्रोपपदं नाम तद् धातोः प्राक् निपततीति, अत्र तु तन्नास्तीत्युपपदत्वाभावः। ब्रह्म जिनातीति । ननु चापवादो ह्वावामश्चेत्यण् प्रत्ययो विहितस्ततो मित्रं ह्वयतीत्यणि सत्यायौ कृते 'मित्रह्वायः' इत्येव वक्तुमुचितम् ? सत्यम्, अयमभिप्रायः स्याधातेः कप्रत्ययोऽस्त्येव ह्राधातोरपि 'क्वचिदपवादविषये उपसर्गस्यापि समावेशः ' ( पुरु० परि०११२) इति न्यायात् कप्रत्यये सति आकारलोपे सिध्यतीति किमर्थं डप्रत्ययाश्रितः इति शङ्कायामुत्तरमाह - यदि पुनरिहेति । तथापीति । नन्वाकारलोपो हि स्वरादावगुणे विधीयते, सम्प्रसारणं चागुणमात्रे कुत आलोपे प्राप्ते सम्प्रसारणमारभ्यते। तथा जिनातीत्यत्राकारलोपविषयेऽपि सम्प्रसारणमिह स्वरादावगुण इति । एतेन सर्वत्र येन नाप्राप्तिन्यायेनोच्यते किन्त्वत्र प्रकृतिस्थल इत्यर्थः ।।१००९।
[समीक्षा]
'गोदः, कम्बलदः, अङ्गुलित्रम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है “आतोऽनुपसर्गे
"
कः” (अ० ३।२।३) । अतः उभयत्र समानता ही है। I
-
[विशेष वचन ]
१. अपिशब्दस्तत्र बहुलार्थ इति । अन्यस्तु यजादयस्तत्र व्यक्तयस्तदर्थमित्यर्थः (दु० टी० ) ।
२. उपकारि पदम् उपपदम् (क० च० ) ।
[रूपसिद्धि]
१. गोदः । गो + दा + क + सि । गां ददाति । 'गाम्' इस कर्म के उपपद में रहने पर 'डु दाञ् दाने' (२।८४) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, धातुघटित आकार का लोप तथा विभक्तिकार्य ।
२. अङ्गुलित्रः । अङ्गुलित्रा + क + सि । अङ्गुलीस्त्रायते । 'अङ्गुली:' इस कर्म के उपपद में रहने पर 'त्रै पालने' ( १।४६३) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् ॥१००९।
१०१०. नाम्नि स्थश्च [४ | ३ |५ ]
[सूत्रार्थ]
नाम के उपपद में रहने पर 'स्था' धातु तथा अन्य आकारान्त धातु से 'क' प्रत्यय होता है ॥ १०१० |
[दु० वृ०]
नाम्न्युपपदे तिष्ठतेराकारान्ताच्च धातोः को भवति । अनुपसर्गादिति न वर्तते । कच्छेन पिबतीति कच्छपः । द्वाभ्यां पिबतीति द्विपः । समे तिष्ठतीति समस्थः । ग्रामे संतिष्ठते इति ग्रामसंस्थः ॥ १०१० |