SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३४ कातन्त्रव्याकरणम् १००९. आतोऽनुपसर्गात् कः [४।३।४] [सूत्रार्थ] कर्म कारक के उपपद में रहने पर उपसर्ग के अभाव में आकारान्त धातु से 'क' प्रत्यय होता है ।।१००९।। [दु० वृ०] कर्मण्युपपदे आकारान्ताद् धातोरनुपसर्गात् को भवति । गोद:, अङ्गुलित्रः । अनुपसर्गादिति किम् ? गोसन्दाय: । उपसगैरव्यवधानतैवेत्यण् । ब्रह्मज्य:, मित्रहः । "अन्यतोऽपि च" (४।३।४९) इति डः ।।१००९। [दु० टी०] आतो० । न विद्यते उपसर्गों यस्य धातोरिति । ‘गोसन्दाय:' इति उपसर्ग: क्रियाद्योतकत्वाद् धातोरनन्तरैः कर्मण: उपपदत्वं न विहन्यते प्राग्भावसमासं प्रति अनुपसर्गादिति प्रतिषेध एव लिङ्गमित्याह-उपसर्गेरित्यादि । ब्रह्मेत्यादि । ब्रह्म जिनाति, मित्रं यतीति । नन् के सति वर्णमात्राश्रयत्वेऽन्तरङ्गत्वात् परत्वाच्चालोपोऽसार्वधातुके इति न ग्रह्यादिलक्षणं यजादिलक्षणं च सम्प्रसारणं येनेयुवोर्विषयता । अथ 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति चेद् धातोरादन्तस्यालोपोऽपि प्राकृत एवेति। एवम् अन्यसम्प्रसारिणामादन्तानां स्थितिरेवाकारस्य प्राप्ता व्यञ्जनादौ स्वरादावगणे त्वाकारलोपस्यापवादः इति "अन्यतोऽपि च" (४।३।४९) इत्यपिशब्दस्तत्र बहलार्थ इति । अन्यस्तु यजादयस्तत्र व्यक्तयस्तदर्थमित्यर्थः ।।१००९। [वि० प०] आतो० । गोसन्दाय इति । उपसर्ग: क्रियाद्योतकत्वाद् धातोरनन्तरैः कर्मणो व्यवहितत्वाद् उपपदत्वाभावे कथमण् इत्याह - उपसर्गेरित्यादि । अव्यवधानतायां तु अनुपसर्गादिति प्रतिषेध एव लिङ्गम्। अन्यथा कप्रत्ययोऽपि कथं स्यात् , येनायं निषेध इति भावः। ब्रह्मज्य इत्यादि। ब्रह्म जिनातीति वाक्यम्। यदि पुनरिह कप्रत्यय: स्यात् तदाऽगुणत्वाद् ग्रह्यादिसूत्रेण ज्याधातोर्यजादित्वाच्च यतेः सम्प्रसारणे सति इयुवौ स्याताम्। अथ 'वा! विधिरन्तरङ्गः' (का० परि० ८०) इत्यालोपोऽसार्वधातुक इति भविष्यति। नैवम्, 'वार्णात् प्राकृतं बलीयः' (का०परि०८१) इति सम्प्रसारणमेव स्यात्। अथालोपोऽपि प्राकृत एवेति मन्यते, तथापि येन नाप्राप्तिन्यायेन स्यात्, स्वरादावगुणे ह्याकारलोपे प्राप्ते सम्प्रसारणं विधीयते इति भावः ।।१००९। [क० च०] आतो०। उपसर्गेरिति। तर्हि कथं ब्रह्मप्रोद्यमिति "नाम्नि वदः क्यप च" (४।२।२०) इति क्यप् स्यात्? सत्यम्, सादृश्यात् कर्तृविहितप्रत्ययमादाय ज्ञापकम्, तर्हि कथं पयांसि निधीयन्तेऽस्मिन्निति पयोनिधिः। "कर्मण्यधिकरणे च" (४।५।७१) इति किम्, उपसर्गेण व्यवधानात्? सत्यम्, अत्रापि कर्म उपपदमादाय सादृश्यमस्तीति।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy