________________
२१७
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः 'स्रु गतौ' (१।२७९) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ।।९९५।
९९६. अवे हृसोः [४।२।५७] [सूत्रार्थ
'अव' के उपपद में रहने पर 'ह' तथा 'सो' धातु से 'ण' प्रत्यय होता है ।।९९६।
[दु० वृ०]
अव उपपदे हरते: स्यतेश्च णो भवति। अवहारः, अवसाय:। अव इति किम्? हर:, विहरः।।९९६।
[क० च०]
अवे० । अव इति किमिति। ननु 'अव' इति पाठोऽशुद्ध एव । तथाहि हसोरित्युक्ते यदि समाङोरित्यनुवर्तिष्यते तदा भिन्नयोगो व्यर्थ: स्यात् । यदि च सामान्येन स्यात् तदा दिहिलिहीत्याद्यनेन सहैकयोगं कुर्यात्, न च भिन्नयोगादनुपसर्गाधिकार इति वाच्यम्, तदा डग्रहणमनर्थकम् । एतच्च "उपसर्गे त्वातो डः" (४।२।५२) इति डबाधनार्थं पठ्यते । केवलस्य तु वक्ष्यमाणेनैव सिद्धमिति किमत्र पाठेन, तस्मात् 'परिहर' इत्यपि पाठः इति कश्चित् । ननु 'अव' इति किमिति, अस्य कोऽर्थः ? अवग्रहणमपनीय दिहिलिहीत्यत्र हसोरपि पाठः क्रियतामिति भावः । अत: सामान्येन प्रत्युदाहरणमिति । 'विहर' इत्यपि प्रत्युदाहरणमिति बोद्धव्यम् । पुस्तकान्तरे त्वयं पाठो नास्तीति ।।९९६।
[समीक्षा]
'अवहारः, अवसाय:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "श्याव्यधास्त्रसंस्वतीणवसावहलिहश्लिषश्वसश्च" (अ० ३।१।१४१) । अत: सामान्यतया उभयत्र समानता
[विशेष वचन १. पुस्तकान्तरे त्वयं पाठो नास्तीति (क० च०)। [रूपसिद्धि]
१. अवहारः। अव + ह + ण + सि। 'अव' उपसर्गपूर्वक ‘ह हरणे' (१।५९६) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, धातुघटित 'ऋ' को वृद्धि तथा विभक्तिकार्य ।
२. अवसायः। अव + सो + ण + सि । 'अव' उपसर्गपूर्वक 'षो' धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय आदि कार्य प्रायः पूर्ववत् ।।९९६।
९९७. दिहिलिहिश्लिषिश्वसिव्यध्यतीणश्यातां च [४।२।५८] [सूत्रार्थ]
'दिह्, लिह, श्लिष्, श्वस्, व्यध्, अति-इण्, श्या' तथा आकारान्त धातुओं से 'ण' प्रत्यय होता है ।।९९७/