________________
चतुर्थे कृतात्यायाध्याये द्वितीयो धातुपादः १७१ [दु० टी०]
यमि० । घ्यणि प्राप्ते समीपलक्षणेयं षष्ठी । "प्रत्ययः परः' (३।२।१) इति वचनात् पर एव । तुशब्द: उक्तसमुच्चयमात्रे । उपसर्गस्याभावोऽनुपसर्ग इत्यव्ययीभावो वा तृतीयासप्तम्योः सम्भवात् । न तु नोपसर्गोऽनुपसर्गः इति तत्पुरुषः, तदा उपसर्गादन्यस्मिन्निति भवति । नायुक्तस्यापि गमकत्वाद् नसमास इति कल्पनेयम्। न च नास्त्युपसों येषाम् इति बहुव्रीहिस्तदा षष्ठीबहुवचनम्, सामानाधिकरण्यात् प्रयुज्यते सूत्रत्वाद् आम्स्थाने ङिरित्ययुक्तम्। यम इत्यादि। पवर्गान्तत्वेन सिद्धेऽनुपसर्ग एव यथा स्यादिति ।।९५२ ।
[वि०प०]
यमि० ।पवर्गान्तत्वात् सिद्धमित्याह-यमो नियमार्थमिति । अनुपसर्ग एव यथा स्यादित्यभिप्राय: ।।९५२ ।।
[क० च०]
यमि० । उपसर्गस्याभावोऽनुपसर्गः ।अथ नोपसर्गोऽनुपसर्गस्तस्मिन्नित्यर्थ: कथन स्याद् उपसर्गादन्यस्मिन्नुपपदे स्यात् ? नैवम् , निरुपपदप्रस्तावान्मुख्यत्वाच्च नञोऽत्र प्रसज्यार्थस्य ग्रहणम् ,नाम्नीत्यकरणादिति दुर्गादित्यः। अन उपसर्गादिति किमिति। नायं खण्डनपरो ग्रन्थः, किन्त्वनुपसर्गस्य क्व व्यावृत्तिरित्यर्थः। खण्डनपरे हि यमः पाठो व्यर्थ: स्यात् प्रकृतिनियमस्य प्राधान्यादिति हेमः। प्राधान्यं च पुनः श्रुतस्यैव धातोर्व्यावृत्तेरसम्भवात् ,अश्रुतकल्पनेऽनौचित्यात् ।।९५२।
[समीक्षा]
'यम्यम् ,मद्यम् ,गद्यम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'य' (यत्) प्रत्यय किया गया है। पाणिनि का सूत्र है- “गदमदचरयमश्चानुपसर्गे (अ०३।१।१००) । अत: उभयत्र समानता ही है ।
[विशेष वचन] १.यमो नियमार्थ वचनम् (दु०७०)। २.तुशब्द: उक्तसमुच्चयमात्रे (दु०टी०)। ३.प्राधान्यं च पुनः श्रुतस्यैव धातोर्व्यावृत्तेरसम्भवात् ,अश्रुतकल्पनेऽनौचित्यात्
(क०च०)। [रूपसिद्धि]
१.यम्यम्। यम् + य+सि । 'यम उपरमे' (१।१५८) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य ।
२-३. मद्यम्। मद् +य+सि । गद्यम्। गद् +य+सि । 'मदी हर्षे' (३।४८) तथा गद व्यक्तायां वाचि'(१।१ ३) धातु से 'य' प्रत्यय तथा विभक्तिकार्य।।९५२।