________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीय बानुपादः
१६९
२. सह्यम् । सह् + य
+
सि । 'षह मर्षणे' (१।५६०) धातु से 'य' प्रत्यय
आदि प्रक्रिया पूर्ववत् ।
+
य + सि । ‘जप मानसे च' (१।१३५) धातु से 'य'
३. जप्यम् । जप् T
प्रत्यय आदि कार्य पूर्ववत् ।
४. लभ्यम् । लभ् + य + सि । 'डु लभष् प्राप्तौ ' (१।४७२) धातु I सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य ॥ ९५०
९५१. आत्खनोरिच्च [४।१।१२]
से प्रकृत
[सूत्रार्थ]
आकारान्त धातु तथा 'खनु अवदारणे' (१।५८४) धातु से 'य' प्रत्यय होता है एवं इन धातुओं के अन्तिम वर्ण के स्थान में इकारादेश भी होता है ।। ९५१ श [दु० वृ०]
आकारान्ताद् धातोः खनेश्च यो भवति, अनयोरन्तस्य चेकारो भवति । देयम्, धेयम्, खेयम् । अत एत्वे 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इत्यनित्येयम् ।। ९५१।
[दु० टी०]
आत्॰ । कथं खेयमिति । इकारस्य गुणे कृते अवर्णस्यैकारे ऐत्वेन भवितव्यम्, सत्यम्। 'स्वरादेशः परनिमित्तिकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इत्येत्वमेव । अथवा 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१ ) इति नाश्रीयते इति मनसिकृत्याह अत एत्वे इत्यादि । अन्तरङ्गः " अवर्ण इवर्णे ए" (१।२।२), बहिरङ्ग इकारो यप्रत्ययसंनियुक्तत्वात् ॥९५१|
[वि० प० ]
आत्०। अथ खनेर्नकारस्येत्वे सति "अवर्ण इवर्णे ए” (१।२।२) कथं प्रवर्तते? ‘असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति नकार एव दृश्यते इत्याह- अत एत्व इत्यादि । तर्हि 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१ ) इति प्रकृतिकार्ये गुणे सत्यैत्वेन भवितव्यम् । कथं खेयमिति ? सत्यम्, तथापि 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इति इकार एव दृश्यते इत्येत्वं न विरुध्यते इति ॥ ९५१।
[क० च० ]
आत् । इच्चेति पाठोऽयुक्त इति हेमः । इदं तु यथाकथञ्चिदुक्तम्, विवरणे तु सर्वत्र शब्दान्तरेणैवार्थः कथ्यते । यथा “इदुदग्निः” (२।१।८) इत्यत्र इकारोकारश्चाग्निरिति, तस्मान्नायं नियमः । वस्तुतस्तु तपरस्य स्वरूपग्राहकत्वाद् 'देयम्' इत्यादौ गुणे न स्यात्।