________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१६७
यत्प्रत्ययं परत्वेनाश्रित्य गुणः स्वरवद्भावादेशश्च क्रियते, इदानीमुत्पत्त्यपेक्षायां घ्यणः संनिहितं निमित्तमिति घ्यणेव न स्यात् । यद्येवं वाच्यमिति भूतपूर्वस्वरान्ततया यः प्राप्नोति " वचोऽशब्दे" (४/६/६१) इति कत्वप्रतिषेधो 'वच भाषण' (२।३०) इत्यस्य स्यात् ? नैवम् । एकदेशविकृतस्यानन्यवद्भावाद् भूतपूर्वगतिरिह शास्त्रे परिज्ञायते, स्थानिवद्भावे च सर्वत्रात्मनोऽन्यत्वं वर्णविधौ च स्थानिवद्भावाभावश्चावश्यमेव प्रतिपत्तव्यः । अन्यथा तव्यादिष्वपि स्थानिनां व्यञ्जनान्तत्वाद् घ्यणेव स्यादिति भव्यम्, प्रचेयम्, आख्येयमिति ॥९४९।
[वि० प० ]
1
स्वरात्० । स्वरादिति । ऋवर्णव्यञ्जनान्ताद् घ्यणाघ्रातत्वादिति भावः ।।९४९। [क० च०]
स्वरात् ० । ननु स्वरग्रहणं किमर्थम्, ऋवर्णव्यञ्जनान्ताद् घ्यणेवास्ति बाधकः, स्वरादेव भविष्यति । न च तदन्तार्थं स्वरग्रहणम्, अर्थायातस्वरग्रहणेन तस्य सिद्धेः । अथ भूतपूर्वस्वरप्रतिपत्त्यर्थम् तेन भव्यमिति सिद्धम् । अन्यथा शास्त्रे बुद्धिप्रवृत्त्या कार्याणि क्रियन्ते इति बुद्धिप्रवृत्तिपक्षे प्रत्ययात् प्राग् गुणे कृते व्यञ्जनान्तत्वात् कथं भव्यमिति यः प्रत्यय इति वररुचिः । अत्रापि तदेव वक्ष्यति। नैवम्, तदा वाच्यमिति न सिध्यति ‘“ब्रुवो वचिः” ( ३।४।८८) इति वच्यादेशो मा भूत्, पूर्वस्वरान्तत्वादिति यप्रत्यय एव भविष्यति " वचोऽशब्दे" (४।६।६१ ) इति ज्ञापकान्नात्र यप्रत्यय इति । तेन हि घ्यण्परे कथं कत्वं निषिध्येत । अतो युक्तमेवैतत् 'वच भाषणे' (२।३०) इत्यस्य चरितार्थत्वात् कथं ज्ञापक इति । तस्माद् वररुचिमतमसाधु इत्याह-- स्वरादिति। ननु हन्तेर्भावे घ्यण् न दृश्यते इति वक्ष्यति, तदा तस्माद् यः कथन्न स्यात् ? नैवम्, यथा घ्यण् न दृश्यते अभिधानात् तथा योऽपीति वक्ष्यते ॥ ९४९ ॥
[समीक्षा]
'गेयम्, चेयम्, भव्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित 'य' प्रत्यय का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि ने तित् स्वर के विधानार्थ तकार अनुबन्ध की योजना 'य' के साथ की है तथा स्वर वर्णों के अवबोधार्थ 'अच्' प्रत्याहार का प्रयोग । उनका सूत्र है " अचो यत्" (अ० ३।१।९७) | अतः उभयत्र समानता है ।
-
[विशेष वचन ]
१. स्वरादिति सुखार्थमेव (दु० वृ० ) ।
२. द्विविधः संस्कारः शब्दानां बुद्ध्या वचनेन च (दु०टी०) ।
३. अथ भूतपूर्वस्वरप्रतिपत्त्यर्थम् तेन भव्यमिति सिद्धम् (क० च०) |
४. तस्माद् वररुचिमतमसाधु (क० च० ) ।