________________
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः
१३५ ९३६. स्वरादुपसर्गात् तः [४।१।८१] [सूत्रार्थ]
अगण तकारादि प्रत्यय के परे रहते स्वगन्न उपसर्ग के बाद आने वाली धेट्वर्जित 'दा' संज्ञक धातु को 'त्' आदेश होता है।।९३६।।
[दु० वृ०]
उपसगांत स्वरान्तात् परस्य धेड्वर्जितस्य दासंज्ञकन्य तकारो भवति तकागदावगणे प्रत्यये परे। प्रत्तम्, नीतम्, परीत्तम् । दस्ति, क्वचित्रामिनो हवल्य दीर्घता। स्वरादिति किम्? निर्दनम्, दुर्दनम्। सस्वरोऽस्वरो वाऽयमादेशो न कश्चिद् दोष इति। कथं निदत्तम्, अवदनम्. प्रदनमिति? वादिकर्मणि प्रादिसमासो निपाता वा।।९३६। ___ [दु० टी०]
स्वरा०। सस्वर इत्यादि। अनेकवर्णः सर्वस्य भवति, अम्वर एकवर्णस्य भवति। एकवर्णत्वात् तकारत्रयऽपि श्रुतिभेदो नास्तीति भावः। कथमित्यादि। एवम् अन्दनम्, विदत्तम् । केचित् प्रदत्तमित्येतदेवादिकमणीति, शेषास्त्वविशेषा एव। वादिकर्मणांति विभाषा आदिकर्मणि विहिते दाञ एव मण्डूकप्लुत्या व्यवस्थितवाग्रहणं स्मर्तव्यम् इत्यर्थः। प्रादिसमासो निपाता वेति वाशब्द: प्रत्येकं पदमभिसम्वध्यते। प्रादिसमासो नेति न चोद्यम्, क्रियान्तरोपादानेन सिध्दात तत् क्रियोपदेशेन शब्दविवक्षाभेदो वस्तु पुनरेकमिति। रूढिशब्दाश्च कृतो भवन्तीति निपाता वेति उपसर्गप्रतिरूपकाश्च निपाता: प्रयोगतोऽन्सर्तव्यास्तेषाम्पसर्गसंज्ञा नास्तीति भावः। उपसर्गादिति किमर्थम् - दधि दत्तम्, लता दिता।।९३६।
[वि०प०]
स्वराः। दस्तीति। दासंज्ञकस्य स्थाने यस्तकारस्तस्मिन्निमित्ते नामिन एव दीर्घः। तत्र क्वचिद्ग्रहणेन लक्ष्यानुरोधस्य सूचितत्वादित्यर्थः। सस्वर इत्यादि। ननु सस्वरपक्षेऽनेकवर्णत्वात् समुदायस्य भवति। ततः अस्य च लोपे तकारद्वयमिति युक्तम् अस्वरपक्षे त्वेकवर्णत्वादन्त्यस्याकारस्य भवति दकारस्य चाघोषे प्रथमे सति तकारत्रयमेव स्यात्। अस्तु, को दोष:? न ह्यत्र श्रुतिभेदोऽस्तीति। कथमित्यादि। स्वरान्तत्वात् तकारादेशेन भवितव्यमिति भावः। एवं विदत्तम्, अनुदत्तमिति। आदिकर्मणीति। आदिकर्मणि विहिते क्तप्रत्यये दाञ एव विभाषा मण्डूकप्लुत्या वाधिकारादित्यर्थः। सर्वत्रादिकर्मणि क्त: कर्तरि चेति क्तप्रत्ययः। शाकटायनस्तु प्रदत्तमित्येतदेवादिकर्मणि, शेषास्त्वविशिष्टा इति व्याचष्टे। पक्षे 'वीत्तम्, अनूत्तम्' इत्यपि भवति।
परिहारान्तरमाह–प्रादीत्यादि। वाशब्द: प्रत्येकमभिसम्बध्यते-प्रादिसमासो निपाता वेति। प्रकृष्टं प्रगतं वा दत्तम्। अवगतम् अवहीनं वा दत्तमित्यादि प्रादिसमासः। ननु प्रादेर्गतादिक्रियान्तरोपादानेन तत् सिध्यति, न तु दानक्रियोपादानेन। तदेव प्रदत्तमित्यादो विवक्षितमिति कथं नार्थो भिद्यत इति न देश्यम् - रूढिशब्दा हि कृतो भवन्तीति व्युत्पत्त्यन्तरेणापि नार्थान्तरभाज इति न दोषः। निपाता वेति। नैते उपसर्गाः, किन्तर्हि नत्प्रतिरूपका अन्य एव निपाता इति। नैतेषामुपसर्गव्यपदेशनिबन्धनो विधिरिति।।९३६।