________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[दु० टी० ]
आलोप०। आलोप इत्यसमस्तं वा पदं धातोरिति विशेषणं चेद् अनन्तस्याप्याकारस्य लोप: प्रसज्येत – जजागरुरिति । नैवम् असार्वधातुकमित्यौपश्लेषिकमधिकरणमाकारस्य । कार्यिण इति भावः । आकारेण धातुर्विशिष्यते, विशेषणेन च तदन्तविधिरित्याकारान्तस्य धातोरिति। एवं सति व्यवच्छेद्याभाव इत्याह धातोराकारस्येति। ‘पपुः, तस्थुः' इति कृते द्विर्वचने पश्चाद् आकारस्य लोप:, स्वरविधित्वात् । 'गां ददाति' इति । 'आतोऽनुपसर्गात् कः” (४।३।४)। संस्थानं संस्था । "आतश्चोपसर्गे” (४।५।८४) इत्यङ् । असार्वधातुक इति किम् ? वान्ति, यान्ति ।। ५६६ ।
[वि० प० ]
५३
आलोपो०। गोद इति गां ददातीति । " आतोऽनुपसर्गात् कः” (४।३।४) इति कप्रत्ययः। संस्थानं संस्थेति । "आतश्चोपसर्गे” (४।५।८४) इत्यङ् ।। ५६६ ।
[बि० टी० ]
आलोपो०। पपुरिति वृत्तिः। ननु कथमिदमुदाहरणम्, यावता “आकारस्योसि” (३।६।३७) इत्यनेन लोप एव नास्ति ? सत्यम् । तत्र लाक्षणिकपरिग्रहार्थमिति हेम: । अगुण इति किमिति वृत्तिः । ननु कथमुक्तम्, निमित्तस्य निमित्तेन व्याघातत्वात् ? सत्यम्। निमित्तस्येत्यत्र निमित्तपदं विशेष्यनिमित्तपरमिति हेमः।। ५६६।
[समीक्षा]
'पपु:, तस्थुः, गोद:' इत्यादि शब्दरूप 'पा-स्था-दा' धातुओं के अन्तिम आकार का लोप किए विना सिद्ध नहीं हो सकते, अत: आकारलोप का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है " आतो लोप इटि च” (अ० ६।४।६४)। तदनुसार इडागम वाले 'पपिथ, ददिथ' आदि शब्दरूपों में भी आकारलोप प्रवृत्त होता है। इस विषय में कातन्त्रकार ने पृथक् सूत्र बनाया है “इटि च” (३।४।२७)। इस प्रकार पाणिनीय सूत्र रचना को ही लाघवाधायक कहा जाएगा।
-
--
[रूपसिद्धि]
१. पपुः। पा + परोक्षा—उस् । 'धेट पा पाने' (१।२६४) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष–बहुवचन ‘उस्' प्रत्यय, "परोक्षायां च " ( ३।५।२० ) से अगुण, “चण्परोक्षाचेक्रीयितसनन्तेषु " ( ३।३।७ ) से द्विर्वचन, अभ्याससंज्ञा, अभ्याससंज्ञक पा- धातुघटित आकार को ह्रस्व, प्रकृत सूत्र से आकार का लोप तथा सकार का विसर्गादेश |
२. तस्थुः । स्था + परोक्षा - उस् । 'ष्ठा गतिनिवृत्तौ ' (१ । २६७) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष–बहुवचन 'उस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।