________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
सम्प्रसारणमस्त्येवेति परोक्षायामगुणे स्वरेण सह संप्रसारणेन भवितव्यम् । न तत्र प्रतिषेधस्य प्रयोजनमस्तीति भावः । यद्येवम्, किमनेन परोक्षाग्रहणेन, अट्थलावन्तरेणान्यो गुणी नास्तीति ‘न व्ययतेरट्थलोरित्यास्ताम् ? सत्यम्। परोक्षाग्रहणं ज्ञापयति - 'संप्रसारणविधिरनित्यः' इति। तेनागुणेऽप्याकारप्रतिषेधेऽयादेशे च 'संविव्ययतुः संविव्ययुः' इति सिद्धम्। तथा च भट्टौ – 'वस्त्रैः संविव्ययुर्देहान्' इति प्रयोगो दृश्यते। संप्रसारणे तु 'संविव्यतुः, संविव्यु:' इति स्यादेव ॥ ५६० ।
-
३९
[बि० टी० ]
न व्यय० । ननु यद्यत्रागुणे संप्रसारणम्, अर्थाद् गुणिन्येव स्यात् तदा परोक्षाग्रहणेन किम्, अट्थलोरित्यास्ताम् ? सत्यम् । अत्र वररुचि : - परोक्षाग्रहणं संप्रसारणस्यानित्यत्वार्थम्। तथा च भट्टिः – “वस्त्रैः सविव्ययुर्देहान्" इति प्रयोगः । टीकायामप्येतत् समर्थितम्, अभ्यासस्य तु " परोक्षायामभ्यासस्योभयेषाम्” ( ३।४।४) इत्यस्त्येव।। ५६०। [समीक्षा]
‘संविव्याय, संविव्ययिथ’ आदि शब्दरूपों के सिद्ध्यर्थ 'व्येञ्' धातुघटित एकार के आकारादेश की आवश्यकता नहीं होती है। अतः दोनों व्याकरणों में आकारादेश का निषेध किया गया है। पाणिनि का सूत्र है "न व्यो लिटि" (अ० ६ | १ |४६) । सूत्र में 'परोक्षा' शब्द के पाठ से सम्प्रसारणविधि को अनित्य माना गया है। अतः अगुण प्रत्ययों के परे रहते सम्प्रसारण होता है।
—
[विशेष वचन ]
१. अगुणे सम्प्रसारणमस्त्येव (दु० वृ० ) ।
२. परोक्षाग्रहणं ज्ञापयति-संप्रसारणविधिरत्रानित्य इति । तेन 'संविव्ययतुः, संविव्ययुः '
इत्यपि भवति (दु० टी० ; वि० प० ) ।
३. अत्र वररुचिः परोक्षाग्रहणं संप्रसारणस्यानित्यत्वार्थम् (बि० टी०)। [रूपसिद्धि]
१. सविव्याय। सम् + व्येञ् + अट् । 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (१।६१२) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद - प्रथमपुरुष – एकवचन 'अट्' प्रत्यय, “सन्ध्यक्षरान्तानामाकारोऽविकरणे” (३४९९ ) से प्राप्त आकारादेश का प्रकृत सूत्र द्वारा निषेध, “चण्परोक्षाचेक्रीयितसनन्तेषु" ( ३।३।७ ) से द्विर्वचन, “पूर्वोऽभ्यासः " ( ३।३।४) से अभ्याससंज्ञा, ‘‘अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्" (३।३।९) से व् की रक्षा - य् का लोप, “ह्रस्वः” (३।३।१५) से अभ्यासघटित एकार को ह्रस्व, "अस्योपधाया दीर्घो वृद्धिर्नामिना -