________________
कातन्त्रव्याकरणम्
कार्यं भवति' (कात० प० ६१ ) इति नैतस्या: परिभाषायाः सन्ति प्रयोजनानीति । नैवमिह व्याख्येयम् परेण स्वरेणेति पूर्वस्यासम्बन्धादिति ।। ५५६ ।
३२
[वि० प० ]
·
"
न संप्र० । व्यधेर्यणि चेक्रीयिते च ग्रह्यादित्वात् सम्प्रसारणे कृते 'यावत्सम्भवस्तावद् विधि:' (कात० प० २७) इति पुनर्वकारस्य प्राप्नोतीति निषेध उच्यते । तथा " व्यथेश्च " (३।४।५) इति व्यथेरभ्यासस्य प्राप्नोति तथा व्यथे: परोक्षायामगुणे कृतसंप्रसारणस्य द्विर्वचनं ‘परोक्षायामभ्यासस्योभयेषाम् ” ( ३।४।४) इति पुनरभ्यासस्य प्राप्नोति । 'संविव्यतुः, संविव्युः' इति व्येञो यजादित्वात् सम्प्रसारणे " तद् दीर्घमन्त्यम्” (४१ ।५२ ) इति दीर्घत्वे च य इवर्णस्येत्यादिना यकारः । अथ किमर्थमिदं यावता संप्रसारणे सति निर्दिष्टा धातव एव न भवन्ति, कुतः पुनः संप्रसारणप्रसङ्ग इत्याह एकदेशविकृतस्यानन्यवद्भावादिति। तथाहि लोके छिन्नकर्णलाङ्गुलः श्वा श्वैव भवति नाश्वादिरिति, तद्वदत्रापीति भावः । व्यक्तौ जातौ च वचनम् इति तत्र व्यक्तौ यावन्ति लक्षणानि तावन्ति लक्षणवाक्यानीति । 'विध्यते' इत्यादौ यकारस्य सम्प्रसारणेऽन्यदेव ग्रह्यादिलक्षणं वकारस्याप्यनन्यवदिति तस्यापि संप्रसारणं स्यात तल्लक्षणस्याकृतार्थत्वादिति । जातौ चैकमेवेदं लक्षणं सकृल्लक्ष्ये लक्षणस्य च नार्थत्वादिति विविधतुरित्यादावगुणे कृतसंप्रसारणद्विर्वचने ‘‘परोक्षायामभ्यासस्योभयेषाम्" (३ ४ ४ ) इति स्याद् यस्मादत्र पक्षे आत्मप्रवृत्तिरेव भवति, नान्यत्र निवृत्तिरित्यन्यस्य निवर्तनीयस्याभावादात्मप्रवृत्तिरेव स्यादिति भावः ।। ५५६ ।
"
[fao to]
न संप्र० । व्यक्तौ जातौ च वचनमिति वृत्तिः । विध्यतीत्यत्र प्रतिव्यक्ति प्रयोगाल्लक्षणमपि बहुतरं स्यात् ।। ५५६ ।
[समीक्षा]
'विध्यते, विव्यथे वेविध्यते' इत्यादि शब्दरूपों में 'य' को संप्रसारण करने के बाद 'व' को भी संप्रसारण प्राप्त होता है, उसके निषेध का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है 'न संप्रसारणे सम्प्रसारणम्" (अ० ६ । १ । ३७)। पुनः सम्प्रसारण होने से अनिष्ट रूपापत्ति के वारार्थ उक्त निषेध करना आवश्यक है। यह निषेध जाति तथा व्यक्तिरूप उभय पक्षों में मान्य है । वृत्तिकार दुर्गसिंह का इस विषय में अभिमत है – 'एकदेशविकृतस्यानन्यवद्भावाद् व्यक्तौ जातौ च वचनम्' (दु० वृ० ) ।
[विशेष वचन ]
こ
१. व्यक्तौ यावन्ति लक्ष्याणि भवन्ति तावन्ति लक्षणवाक्यानीति भावः । जातौ चैकमेवेदं लक्षणम्, सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् (दु० टी० ; वि० प० ) । २. इहेङ्गितेन आचरितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रणयनेनाचार्याणामभिप्रायो लक्ष्यते (दु० टी० ) ।