________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
३. दिद्योतिषते । द्युत + सन् + इट् + ते । द्योतितुमिच्छति । 'द्युत दीप्तौ ' (१।४७३) धातु से “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्” (३।२।४) सूत्र द्वारा इच्छार्थ में 'सन्' प्रत्यय, इडागम, द्वित्व, अभ्याससंज्ञा, तकारलोप, प्रकृत सूत्र से सम्प्रसारण, “संश्चेति वा वक्तव्यम्” से वैकल्पिक गुणादेश तथा सकार को षकारादेश ।
४. अदिद्युतत् । अट् + त् +इन् + चण् + दि । द्योतमानं प्रायुक्त । 'द्युत् दीप्तो' (१४७३) धातु से "धातोश्च हेतौ” (३ । २ । १०) सूत्र द्वारा 'इन्' प्रत्यय, गुण, 'द्योति' की ‘“ते धातव:’” (३।२।१६ ) से धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद - प्रथमपुरुष एकवचन 'दि' प्रत्यय, अडागम, चण् प्रत्यय, द्विर्वचन, अभ्याससंज्ञा, तकारलोप, प्रकृत सूत्र द्वारा सम्प्रसारण तथा कारितलोप ।
५. सुष्वापयिषति। स्वप् + इन् + सन् + ति । स्वपन्तं प्रयोक्तुमिच्छति । 'ञिष्वप शये' (२।३२) धातु से हेत्वर्थक 'इन्' प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” (३।६।५) से दीर्घ, "ते धातवः " ( ३।२१६ ) से 'स्वापि' की धातुसंज्ञा, "धातोर्वा तुमन्ताद् इच्छतिनैककर्तृकात्" (३।२।४) से 'सन्' प्रत्यय, इडागम, द्वित्व, प्रकृत सूत्र द्वारा सम्प्रसारण, षकारादेश, गुण तथा अयादेश ।। ५५५ । ५५६. न सम्प्रसारणे [३ । ४ । १६ ]
३१
[ सूत्रार्थ]
एक बार सम्प्रसारण हो जाने पर पुनः सम्प्रसारण नहीं होता है ।। ५५६ । [दु० वृ०]
सम्प्रसारणे कृते पुनः संप्रसारणं न भवति । विध्यते, वेविध्यते, विव्यथे विविधतुः विविधु, संविव्यतुः, संविव्युः । एकदेशविकृतस्यानन्यवद्भावाद् व्यक्तौ जातौ च वचनम्।। ५५६।
"
-
[दु० टी० ]
न संप्र० । व्यक्तौ जातौ च वचनमिति । व्यक्तौ यावन्ति लक्ष्याणि तावन्ति लक्षणवाक्यानि इति भावः। जातौ चैकमेवेदं लक्षणम्, सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात्, परोक्षायामगुणे कृतसंप्रसारणानां द्विर्वचने "परोक्षायामभ्यासस्योभयेषाम् ” ( ३।४१४) इति पूर्वस्य प्राप्नोति, एकयोगलक्षणं खल्वपि संप्रसारणम्, तद् यदि तावत् परमभिनिवृत्तं (पूर्वमप्यनभिनिवृत्तम्) प्रसक्तस्यानभिनिवृत्तस्य प्रतिषेधेन निवृत्ति: शक्या कर्तुम् । यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्ष्वेति किन्तेन कृतं स्यात् । तथापि परमभिनिवृत्तम्, पूर्वमप्य (न) भिनिवृत्तम्। अत्र निमित्तसंशयोऽनुपपन्नः । “न सम्प्रसारणे सम्प्रसारणम्" ( ३।४।१७) इति यत् तावदुच्यते उच्यमानेऽप्येतस्मिन् कुत एतत् परस्य भविष्यति न पुनः पूर्वस्येति । इहेङ्गितेन आचरितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रणयनेनाचार्याणामभिप्रायो लक्ष्यते । एतदेव ज्ञापयति परस्य भवति न पुनः पूर्वस्येति । यदयं "न सम्प्रसारणे सम्प्रसारणम्” (३।४।१७) इति प्रतिषेधो नास्तीति । न च ' अन्त्यविकारेऽन्त्यसदेशस्य