________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: भ्यस्तस्य क्रियते व्यपदेशो ह्वयतेरत्राभ्यस्तमिति। जिह्वायकयिषतीत्याय्यादेशस्य ह्वयतिग्रहणेन ग्रहणाद् रूपातिरेकता। नैतद् दर्शनमिहाभ्यस्तनिमित्तमभ्यस्तमुच्यते उपचारात्। यथा 'आयुघृतम्' इति। तेन कृतसम्प्रसारणस्यैव द्विवचनम्, अन्यथा “न सम्प्रसारणे” (३। ४।१७) इति प्रतिषेधे द्वितीयस्य संप्रसारणं न स्यात्। कृदन्तस्य च ह्वयते: संप्रसारणमिति प्रतिषेधो भवतीति मुख्येऽप्यर्थे सति गौणे वर्तते, लक्षणानुरोधात्। यथा “रागान्नक्षत्रयोगात्" (२।६। ७) इत्यभ्यस्तनिमित्ते प्रत्यय इत्यर्थः । कथन्तर्हि षष्ठी अभ्यस्तस्य प्रत्ययस्य यो ह्वयतिरिति संबन्धात् सूत्रत्वात् सप्तम्यर्थे षष्ठीति अन्ये। एवं सति योगविभाग इति हदि कृत्वाह-द्विर्वचननिमित्त इत्यादि। एवशब्द: स्वयोगव्यवस्थापक:। ह्वायकमाचष्टे इतीन्, ततः सन्। ह्वायकमाख्यदिति इन्, ततश्चण्। तिब् – निर्देशेन तु “शाच्छासाह्वाव्यावेपामिनि" (३। ६। २१) इत्यायिरादेशोऽपि बाध्यते इति वचनात्, तेन 'अकृतव्यूहा: कौमारा: कार्यं दृष्ट्वा कृतमपि शास्त्रं निवर्तयन्ति' इति नायितव्यं भवति। कथं 'शुशुवतुः, शुशुवुः' इति परत्वादियादेशो न भवति, तत्रापि तिनिर्देशस्य स्वरूपग्राहकत्वान्न दोषः। 'जुहुवतु :, जुहुवु :' इति ह्वय ते रालो पो ऽसार्वधातु के न भवति द्विर्वचनापेक्षत्वादित्यन्तरङ्गत्वात् प्रागेव संप्रसारणम्। अन्ये तु "सपरस्वराया:" (३।४। १) इत्यत्र परग्रहणं प्राप्तमपि कार्य बाधित्वा सम्प्रसारणमेवाग्रेऽवधारयतीति मन्यन्ते। तच्च न प्रयोजयतीति नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।। ५५३ ।
[वि. प०]
ह्वयतेः। जुहावयिषतीत्यत्रापि पूर्ववत् सम्प्रसारणेन "शाच्छासाह्वा०" (३। ६ । २१) इत्यादिना आयिरादेशोऽन्तरङ्गोऽपि बाध्यते। सम्प्रसारणे तु पूर्ववदिनि वृद्ध्यादौ कृते स्थानिवद्भावाद् हुद्विवचनम्। अजूहवदिति। पूर्ववदिन्नादिकं कार्यम्। अथ किमर्थोऽयं योगविभागो ह्वयतेर्नित्यमभ्यस्तस्य चेत्युच्यताम्। एवमपि 'जुहावयिषति, अजूहवत्' इति सिध्यत्येवाभ्यस्तत्वादित्याह – द्विवंचनेत्यादि। कारितेन व्यवधानमस्येति कारितव्यवधानं द्विवचननिमित्तम् । एतदुक्तं भवति – यदि पुनर्द्विर्वचननिमित्तप्रत्ययव्यवहिते संप्रसारणं भवति, तदा कारितनेव व्यवहिते यथा स्यात्, अन्यव्यवहित मा भूत् तन वुणादि- प्रत्ययन व्यवहिते न भवति, अन्यथा तत्राभ्यस्तनिमित्ते संप्रसारणं भवद् यथा कारितव्यवहिते भवति, तथा वुणादिप्रत्ययव्यवहितेऽपि स्यादिति। ह्वयतेर्वण “आयिरिच्यादन्तानाम्'' (३। ६। २०) आयिः, ह्वायकमाचष्टे इतीन्। ह्वायकयितुमिच्छतीति सन्, द्विवचनादिकं कार्य तथा चण्प्रत्ययेऽपीति।। ५५३।
[समीक्षा]
'जुहावयिषति, अजूहवत्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में सम्प्रसारणविधान किया गया है। पाणिनि का सूत्र है - "ह्वः सम्प्रसारणम्' (अ० ६।१।३२)। कातन्त्रकार ने सूत्र में साक्षात् 'नित्य' शब्द का पाठ किया है। पाणिनि ने सूत्र में 'नित्य' शब्द नहीं पढ़ा है, परन्तु व्याख्याकारों ने उसको सिद्धि इस प्रकार