________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[दु० वृ०]
श्वयते: संश्चणोर्यत् कारितं तस्मिन् संप्रसारणं भवति वा। शुशावयिषति, शिश्वाययिषति। अशूशवत्, अशिश्वयत्। इनि कृतस्य स्थानिवद्भावात् शु - द्विवचनम्।। ५५२।
[वि. प०]
कारिते० । शुशावयिषतीति। श्वयतेहूँताविन् । तिपा निर्देशस्य स्वरूपग्राहकत्वादिह प्राङ् न वृद्धिः। विषयविज्ञानाद् वा वृद्धिरन्तरङ्गापि संप्रसारणेन बाध्यते। रांप्रसारणे तु वृद्ध्यावादेशौ भवतः एव इनि कृतस्य स्थानिवद्भावात् शु - द्विवचनम् - अशूशवद् इति। इन्नादिकं पूर्ववत् "इन्यसमान०" (३। ५। ४४) इत्यादिना ह्रस्व: "दी? लघो:" (३। ३। ३६) इति च विशेषः। सम्प्रसारणाभावपक्षे दीर्घो लघोर्न भवति श्वशब्दयोगे गुरुत्वादिति।। ५५२।
[बि० टी०]
कारिते० । वृद्धरपि बाधकत्वमित्याह – विषयविज्ञानाद् वेति। शावयितुमिच्छतीति न वाक्यम्। सन्विषयकारिते सम्प्रसारणं तच्च विषयप्रागिच्छार्थविवक्षायामेव। अत इनि सति वाक्ये सनो विषयस्य प्राग् अभावात् सम्प्रसारणेऽपि श्वयिमिच्छतीति सनुत्पत्तो वाक्यं शुद्विवचनम्। सम्प्रसारणं तु अनेन कृतम्, तच्च सन् – चग्निमित्तके इनि न स्थानिवदिति हेमः। तयोर्विषये इनि सम्प्रसारणत्वाद् इन्मात्रनिमित्ते कार्ये स्थानिवदित्याह - इनि कृतस्येति।। ५५२।
[समीक्षा]
'शुशावयिषति, अशूशवत्' आदि शब्दरूपों के सिद्ध्यर्थ सम्प्रसारण कार्य का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – “णो च संश्चङोः'' (अ० ६।१। ३१)। पाणिनीय 'णिच्' प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है और उसकी कारितसंज्ञा भी की है – “इन् कारितं धात्वर्थे'' (३। २। ९)। इसी प्रकार पाणिनीय 'चङ्' प्रत्यय के लिए कातन्त्र में णकारानुबन्धविशिष्ट ‘चण्' प्रत्यय मान्य है। अत: उभयत्र समानता है।
[रूपसिद्धि]
१. शुशावयिषति, शिश्वाययिषेति। श्वि + इन् + सन् + नि। श्वयन्तं प्रयोक्तुमिच्छति। 'टु ओ शिव गतिवृद्ध्यो :' (१ । ६१६) धातु से 'धातोश्च हेतो'' (३। २ । १०) सूत्र द्वारा 'इन्' प्रत्यय 'धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्'' (३। २। ४) से सन् प्रत्यय, प्रकृत सूत्र से वैकल्पिक सम्प्रसारण, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु'' (३।६। ५) से वृद्धि, आव् आदेश, "इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादे:' (३ । ७। १) से इडागम, “चण्परोक्षाचेक्रोयितसनन्तेषु'' (३।३। ७) से 'शु' को द्वित्व, “पूर्वोऽ