________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
२३ २. आपिप्ये। आङ् + प्याय् + ए। 'प्यायी' (१ । ४१३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद प्रथमपुरुष – एकवचन 'ए' प्रत्यय, 'पि' आदेश, द्विर्वचनादि, “य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य'' (३। ४। ५८) से धातुघटित इकार को यकारादेश।
३. आपिप्याते। आङ् + प्याय् + परोक्षा – आते। आङ् – पूर्वक प्यायी धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुषद्विवचन ‘आते' प्रत्यय, 'पि' आदेश, द्विर्वचनादि तथा धातुघटित इकार को यकारादेश।
४. आपिप्यिरे। आङ् + प्याय् + परोक्षा – इरे। 'आङ्' उपसर्ग-पूर्वक ‘प्यायी' धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष - बहुवचन 'इरे' प्रत्यय, प्याय् को 'पि' आदेश, द्विर्वचनादि तथा इकार को यकारादेश।। ५५० ।
५५१. श्वयतेर्वा [३।४।११] [सूत्रार्थ
चेक्रीयितसंज्ञक 'य' प्रत्यय तथा परोक्षासंज्ञक प्रत्यय के परे रहते 'श्वि' धातु को वैकल्पिक सम्प्रसारण होता है।। ५५१ ।
[दु० वृ०]
श्वयतेश्चेक्रीयिते परे परोक्षायां च संप्रसारणं भवति वा। शोशूयते, शेश्वीयते। शुशाव, शुशुवतुः। शिश्वाय, शिश्वियतुः।। ५५१।।
[दु० टी०]
श्वयते । गुणिन्यप्राप्ते विभाषा अगुणे च प्राप्ते विभाषा। यस्मिन् पक्षे श्वयते: संप्रसारणं नास्ति तदापि “परोक्षायाम् अभ्यासस्योभयेषाम्" (३।४। ४) इति संप्रसारणं प्राप्नोतीति अभ्यासे प्रतिषिध्यते। इतर आह - नाप्राप्तयोरगुणाभ्यासलक्षणयोरियं श्वयतेर्विभाषा आरभ्यते। सा यथैवागुणं बाधते तथाभ्यासलक्षणमपि, परत्वाद् वा श्वयतेलक्षणस्यावकाश: – शुशाव, शुशविथ। शिश्वाय, शिश्वयिथ। अगुणलक्षणस्यावकाश: 'शून:, शूनवान्' इत्यादौ। इह तूभयं प्राप्नोति – शिश्वियतुः शिश्वियुरिति। यदि तर्हि परत्वाद् अगुणलक्षणं बाधते, एवम् अभ्यासलक्षणमपि, तत्राभ्यासलक्षणस्यावकाश:। अन्ये यजादय: ‘इयाज, उवाप' श्वयतिलक्षणस्यावकाश: पररूपं श्वयतेरभ्यासस्योभयेषां प्राप्नोतीति 'शिश्वियतः, शिश्वियः' श्वयतिलक्षणं भवति परत्वादिति, नैतद् युक्तम्। यतो यजादय इति व्यवस्थावाच्यादिशब्द:, स च गणे पठितान् यजादीन् प्रत्यकमपेक्षते, कुतश्चोदनात् क्वचिदेव यजादौ कृतावकाश: स्यात्, तस्मादनवकाशमभ्यासलक्षणं संप्रसारणं प्राप्नोतीति प्रतिषेधस्य विषयः।। ५५१ ।
[वि. प०]
श्वयते । 'शुशुवतुः, शिश्वियतुः' इति अतुस्, “स्वरादाविवर्णोवर्णान्तस्य" (३। ४। ५५) इत्यादिना इयुवौ।। ५५१ ।