________________
४८२
कातन्त्रव्याकरणम्
५. निनाय । नी + परोक्षा-अट । ‘णी प्रापणे' : १।६००) धातु से परोक्षासंज्ञक अट् प्रत्यय, द्विर्वचनादि तथा आय आदेश।
६. लुलाव । लू + परोक्षा-अट् । 'लूञ् छेदने' (८।९) धातु से परोक्षासंज्ञक 'अट्' प्रत्यय, द्विर्वचनादि तथा आव् आदेश ।
७. निनयिथ । नी + परोक्षा-थल् । ‘णीञ् प्राणे' (१।६००) धातु से परोक्षासंज्ञक 'थल्' प्रत्यय, द्विर्वचनादि तथा अयादेश ।
८. लुलविथ । लू + परोक्षा - थल् । 'लूञ् छेदने' (८।९) धातु से परोक्षासंज्ञक 'थल्' प्रत्यय, द्विर्वचनादि तथा अवादेश ।
९. निन्यतुः । नी + परोक्षा-अतुस् । ‘णीञ् प्रायणे' (१।६००) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय, द्विर्वचनादि तथा यकारादेश ।
१०. चक्रतुः । कृ + परोक्षा-अतुस् । 'डु कृञ् करणे' (७७) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय, द्विवचनादि तथा ऋकार को रकारादेश ।।८५०।
८५१. योऽनुबन्धोऽप्रयोगी [३।८।३१] [सूत्रार्थ
जो प्रत्यय आदि के साथ जोड़ा जाता है, उसे 'अनुबन्ध' कहते हैं । अनुबन्ध को अप्रयोगी माना जाता है। अर्थात उसके स्थान में कोई कार्य नहीं होता है। उसे उच्चारण के लिए ही जोड़ा जाता है, जैसे 'गेंहूँ-चने' की सुरक्षा के लिए उनका आवरण होता है ।।८५१।
[दु० वृ०]
अनुबध्यते इत्यनुबन्धः । अप्रयुक्तिरप्रयोगः । अनुबन्धो यः सोऽप्रयोगी अनुच्चारणीयो भवति । इङ् - अधीते । डु कृञ् - कुरुते । एवमन्येऽपि ।।८५१।
[दु० टी०]
योऽनु० । अनुबध्यते इति कर्मणि घञ् । अनुपूर्वो बन्धिर्विलोपने वर्तते । यथा अग्नीषोमीयो गौरनुबध्यताम् इति । अन्वर्थसंज्ञाविधानात् सिध्यति मन्दमतिबोधनार्थ परिभाष्यते । ननु मत्वर्थीयेन बहुव्रीहिणा सिद्धम, किमिना ? प्रयुज्यते इति प्रयोगः इति कर्मणि घञ्प्रत्ययेन वा? सत्यम्, तत्पुरुषादपि गमकत्वादिनभिधीयते इत्यदोषः परमार्थतोऽनुबन्धाः कार्यार्थ शब्दव्यवहारिभिरुपादीयन्ते इति मनसि कृत्वाह - ङानुबन्धत्वादात्मनेपदम्, अनुबन्धत्वादुभयपदम् इति । केचिद् यद्ग्रहणं न पठन्ति । अप्रयोगी अनुबन्धसंज्ञो भवति । अनुबन्धप्रदेशाः - "कर्तरि रुचादिङानुबन्येभ्यः" (३।२।४२) इत्येवमादयः ॥८५१।
[वि० प०]
योऽनु० । अनुबध्यते इत्यनुबन्धः, कर्मणि घञ् । अनुपूर्वोऽयं बन्धिरिह विलोपने वर्तते । यथा गौरनुबध्यतामिति । एतेनान्वर्थबलादेवानबन्धसंज्ञा सिद्धति दर्शितम, ततो नेतरेतराश्रयदोष इति । अप्रयोगोऽस्यास्तीतीन् । ननु न विद्यते प्रयोगो यस्येति सोऽप्रयोग