________________
४६१
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः ८४२. नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षासु धो ढः [३।८।२२]
[सूत्रार्थ
नाम्यन्त धातु से परवर्ती आशी:-अद्यतनी-परोक्षासंज्ञक प्रत्ययघटित धकार को ढकारादेश होता है ।।८४२।
[दु० वृ०]
नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षासु यो धकारस्तस्य ढकारो भवति । चेषीढ्वम्, कृषीढ्वम्, अध्यगीढ्वम्, समस्थिढ्वम्, तुष्टुढ्वे, चकृढ्वे । अन्तग्रहणं भूतपूर्वनाम्यन्तार्थम्, तेन प्रावरिषीदवम्, अलविवम्, लुलुविढ्वे । धातोरिति संज्ञापूर्वकत्वादनित्यार्थम् । तेनासु सेट्सु विभाषा सिद्धा-प्रावरिषीढ्वम्, प्रावरिषीध्वम् । अलविढ्वम्, अलविध्वम् । दिदीयिट्वे, दिदीयिध्वे इत्यपि स्यात् ।।८४२।
[दु० टी०]
नाम्य० । पञ्चम्या निर्देशेऽप्याशीघ्रहणसामर्थ्याद् व्यवहितस्यापि प्रतिषेध इति अन्ये। अन्तग्रहणमित्यादि । नामिना धातुर्विशिष्यते, विशेषणेन च तदन्तविधिरिति भावः। न च वक्तव्यं विहितविशेषणत्वेन च सिध्यतीति धातोर्नाम्यन्ताद या आशीरद्यतनीपरोक्षा विहितास्तद्विषये धकारस्येति, तदा समस्थिढ्वमिति दुष्यति “ स्थादोरिरद्यतन्यामात्मने" (३।५।२९) इति कृते नाम्यन्तत्वाद् नामी अन्ते यस्य दृष्टः सोऽपि नाम्यन्त इति कृतेऽपि गुणो भवति। धातोरित्यादि । अर्थवशादधिकारस्मरणाच्च धातुरेवावसीयते । यदत्र धातुग्रहणम्, तदाशीरद्यतनीपरोक्षाविशेषणार्थम, न धकारस्य प्रधानस्यापि स्थानिन इति । नाम्यन्ताद धातोर्धकारस्येत्युच्यमाने कुत इड्व्यवधाने स्यात्, सार्थकत्वेऽपि हि सज्ञापूर्वको विधिरित्युपतिष्ठते। अन्य आह-विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद् आसामप्रधानानामपि विशेषणम् । सिचो धकार इति वचनबलाद् इहाद्यतनी ग्रहणसामर्थ्याच्च सिचो लोपः। पक्षे ढत्वं चेद् अन्यथा सिचः षत्वे धस्य षाट्टवर्गत्वे सिद्धमित्युक्तमेव । आशी:परोक्षयोश्च नित्यं ढत्वमित्यस्य मतं वर्णयिष्यामः । अत: एवाद्यतन्यां विभाषा न चोदितेति । आस्विति यद बहवचनं वृत्तौ तदधिकारवशादिति दीङोऽन्तत्वे यकारस्य भूतपूर्वगत्या भवतीत्याहदिदीयिट्वे इत्यपीति ।।८४२।
[वि० प०]
नाम्यन्तात् । अध्यगीढ्वमिति । अधिपूर्वः 'इङ् अध्ययने'' (२०५६) अद्यतनीक्रियातिपत्त्योर्वा गीरादेशः, 'सिचो धकारे" (३।६।५०) इति सिचो लोपः । समस्थिवमिति । “समवप्रविभ्यः" (३।२।४२-१४) इति रुचादिवचनादात्मनेपदम् । "स्थादोरिरद्यतन्यामात्मने" (३।५।२९) इतीत्त्वम् । 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमित्याह- अन्तेत्यादि । अथ धातुग्रहणं किमर्थम् ? न ह्यमूषां विभक्तीनामधातोर्विधिरस्तीति ? सत्यम्, धातुग्रहणमासामप्रधानानामपि विशेषणार्थम्, न तु यकारस्य स्थानित्वेन प्रधानस्यापि, अत एव सूत्रार्थे नाम्यन्ताद् धातोर्धकारस्येति नोक्तम्।