________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४५९
कार्षीत्, मास्म कार्षीत् । संयुक्ते न स्यादिति मास्मग्रहणम् । साहचर्यान्मदो न स्यात् - मा भवानपश्यत् ।।८४१
[दु० टी०]
न मा० । माश्च स्मश्च मास्मम्, समाहारद्वन्द्वः । माश्च मास्मं च मामास्मे, ताभ्यां योग इत्यर्थः । इतरेतयोगद्वन्द्वे चोघं माग्रहणमनर्थकं स्यादिति । जुगुप्सतेत्यादि । "इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः" इत्यपरार्द्धम् । व्यवहितेनापि स्मेन युक्तेन माशब्देन प्रतिषेधो दृश्यत इत्यर्थः । मायुक्तः स्मः मास्मः । संश्लिष्टनिर्देशोऽयं भाष्यसम्मतः पक्षः । माशब्दे स्मयुक्ते सम्बन्धस्य गौणत्वादित्याह - संयुक्त इत्यादि । तृतीयानिर्देशेनापि निर्वोढुं शक्यते । योगग्रहणं स्पष्टार्थम् । एवं मा भवानटत्, मास्म भवान् अटीत्, मा भवान् ऋच्छत्, मास्म भवान् ऋच्छीत्, मा भवन्तः सन्, मास्म भवन्तो यन् । साहचर्यादिति । यद्यपि त्वामा तु द्वितीयायाम् इत्यनेनास्मद्शब्दस्य द्वितीयैकवचनान्तस्य मादेशोऽस्ति, तथापि तस्य न ग्रहणं मास्मसहचरितस्याव्ययस्यैव ग्रहणमित्यर्थः ॥ ८४१ ।
[वि० प० ]
न मामास्म० । जुगुप्सतेत्यादि । व्यस्तेऽपीच्छन्तीति यन्मतमुक्तं तन्मतमित्यर्थः । जुगुप्सतस्मैनमदुष्टभावं मैवं भवानक्षतसाधुवृत्तः ।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः । । इति । अत्रायमर्थः पुरा किल दशरथेन राज्ञा मृगयां गतेन मुनिकुमारस्तमसाभिधानायां नद्यां पितुरुदकप्रदानार्थं कुम्भं पूरयन् पूर्यमाणकुम्भसम्भवनिनादमाकर्ण्य द्विरदबृंहितमिदमिति मन्यमानेन धनुर्धरण शब्दभेदिना शरेण विद्धः । ततोऽसौ हा तातेति क्रन्दितमाकर्ण्य किमिदं मया व्यापादितमिति विषण्णमनास्तत्प्रदेशमुपसृत्य मुनिकुमारं शरताडितोरस्कं सकुम्भमेवाद्राक्षीत् । ततो मुनिकुमारकोऽपि तमधिज्यधन्वानमुपालभ्य आः पाप ! दुरात्मन् । किं त्वया कृतम्, न केवलमहं त्वया व्यापादितः किन्तु मच्चक्षुषावन्धौ पितरावपीत्यादि बहुशो निन्दितवानिति । अत्रान्तरे तस्य शरप्रहारजर्जरितमर्मणो गच्छतः प्राणानुत्प्रेक्षमाणः कविरिदमाहजुगुप्सतेत्यादि ।
एनं दशरथमेवमुक्तक्रमेण मा जुगुप्सतस्म मा निन्दत् । कीदृशमदुष्टभावमदुष्टाभिप्रायं वेतसवनपिहितप्रदेशवर्ती हि भवान् दूरादविजानताऽनेन शब्दभेदिना शरेण विद्धः इत्यदुष्टाभिप्राय एवायम् । न चादुष्टभावो निन्दनीय:, अक्षतसाधुवृत्तो हि भवान् इतीव मन्यमानैः प्राणैरतिपूतस्य भूपालस्य निन्दामाचरतो महर्षिसूनो रोषादिव निगृहीतकण्ठैरवरुद्धगलप्रदेशैर्वाचोऽरुध्यन्त निरुद्धा वाच इत्यर्थः । अत्र पुनरपप्रयोगोऽयं यस्माद् मास्मशब्दोऽयमकृतद्वन्द्वः समुदायोऽङ्गीकृतः इत्युक्तमेव ।
-
मास्मशब्दैकदेशेन माशब्देन योगस्य गौणत्वान्न मायोग इति कृते मास्मयोगप्रतिषेधो न सिध्यतीत्याह - संयुक्त इत्यादि । मास्मशब्देनाव्ययेन सहचरितो माशब्दोऽप्यव्यय एवेत्याह- साहचर्यादिति । तेन " त्वन्मदोरेकत्वे' (२।३।३) इत्यादिना मादेशे माशब्दयोगे न भवतीत्यर्थः ।।८४१।