________________
४५४
कातन्त्रव्याकरणम्
[दु० वृ०]
स्वरादीनां धातूनामादेरवर्णस्याकारो भवति हस्तन्यादिषु परत: । आटत्, आटीत्, आटिष्यत्। आप्नोत्, आपत्, आप्स्यत्। 'अवर्णः सर्वमुखस्थानम्' इति एके । एकदेशेनान्तरतम्यात् सर्वा वृद्धयो मा भूवन् इति वर्णग्रहणम् ॥८३८।
[दु० टी०]
अव०। ननु "आरुतरे च वृद्धिः" (३।८।३५) इत्याकारप्रश्लेषादाकारस्य वृद्धिसंज्ञायामिदं सूत्रं न वक्तव्यम् । तथा "अस्योपधायाः" (३।६।५) इत्यत्र दीर्घग्रहणम्, तथा "वृद्धिरादौ सणे" (२।६।४९) इत्यत्रादाविति प्रश्लेषः। 'स्थानेऽन्तरतमः' (का० परि० १६) इति यथाऽकारस्य कण्ठ्यस्याकारः कण्ठ्यो भवति, एवं सर्वमुखस्थानीयस्य अकारस्य सर्वमुखस्थानीय आकारो भविष्यति। अथ मतान्तरेऽपि प्रश्लेषनिर्देशो गरीयानिति चेत्, "वृद्धिरादौ सणे" (२।६।४९) इत्यत्र दुष्यति। तत्र तद्धितानामाकृतिप्रधानत्वात् तर्हि विसन्धिरेव क्रियताम् ‘आ + आर्' इति द्विवचनं वा ? सत्यम्, सुखपाठप्रतिपत्तिरेवाभिमतं न शब्दलाघवम् इति। एकदेशेनेत्यादि। 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' (का० परि०२) इत्यनित्यत्वाभ्युपगमे वर्णग्रिहणमित्यर्थः ।।८३८।
[वि० प०]
अवर्ण०। आपदिति लदनुबन्धत्वादण् । अथ वर्णग्रहणं किमर्थम् ‘अस्याकार:' इत्यास्ताम् । 'आप्ल व्याप्तौ' (४।१४) इत्यादावाकारस्याकारकरणेन प्रयोजनाभावादित्याहअवर्ण इत्यादि। न च वक्तव्यम् एकदेशेनान्तरतमस्य गौणत्वान्नायं प्रसङ्ग इति । गौणमुख्यपरिभाषायाः अनित्यत्वाभ्युपगमान्नेदमुच्यते । यथा ऋवर्णस्य वृद्धिगुणौ आर्अराविति। सिद्धान्तेऽपि कण्ठ्यस्याकारस्य वृद्धिरार् स्यादिति वर्णग्रहणम् ।।८३८।
बि० टी०]
अवर्ण०। एकदेशेनेत्यादि । ननु यद्येकदेशेनान्तरतम्यं तदा एकारैकारयोः पूर्वभागोऽकार: परश्च भाग इकारः इत्युक्तत्वाद् ‘एन कम्पने' (१।७०, ३४७) इति एजुधातोरपि अकारप्रसङ्ग इति वर्णग्रहणं स्वरूपा) कथं निरर्थकम् ? सत्यम्, तदात्र आकार इति ब्रूयात् ।।८३८।
[समीक्षा
'आटीत्, आप्नोत्, आप्स्यत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ धात्वादिस्थ अकारआकार को आकारादेश उभयत्र किया गया है। पाणिनि के सूत्र हैं – “आडजादीनाम्, आटश्च" (अ० ६।४।७२; १९०)। तदनुसार धातु के आदि में पहले 'आट्' आगम और तब वृद्धि की जाती है। इन दो कार्यों के स्थान में कातन्त्रीय आकारविधान लाघवबोधक है ।
[विशेष वचन] १. अवर्णः सर्वमुखस्थानम् इत्येके (दु० वृ०) । २. सिद्धान्तेऽपि कण्ठ्यस्याकारस्य वृद्धिरार् स्यादिति वर्णग्रहणम् (वि० प०) ।