________________
४४६
कातन्त्रव्याकरणम्
४. तुष्टुषति। स्तु + सन् + अन् + ति। 'ष्टुञ् स्तुतौ' (२।६५) धातु से ‘स्तोतुमिच्छति' इस अर्थ में सन् प्रत्यय, द्विर्वचनादि तथा विभक्तिकार्य ।।८३२।
८३३. हनिङ्गमोरुपधायाः [३।८।१३] [सूत्रार्थ
सन् प्रत्यय के परे रहते ‘हन्' धातु तथा इङ्स्थानिक ‘गम्' की उपधा को दीर्घ आदेश होता है ।।८३३।
[दु० वृ०]
इङो गम: इङ्गमः। हनिङ्गमोरुपधाया दीघों भवति सनि परे। जिघांसति, अधिजिगांसते। इङो गम इति किम् ? संजिगांसते, तितांसति, तितनिषतीति वा वक्तव्यम् ।।८३३।
[दु० टी०]
सनि०। इङो गमः इति इणो गमेर्गम्ल इत्यस्य च निवृत्तिरित्यर्थः। 'औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव प्राप्नोति' (का० परि०४२) इति वा। यदा सम्पूर्वस्येण: आदेशस्तत्राप्यात्मनेपदमस्तीति अभेदेन एकं प्रत्युदाहरणं 'संजिगांसते वत्सो मात्रा' इत्यर्थः। जिगमिषतीत्यपि प्रत्युदाहरणं युज्यते। नात्र व्यञ्जनादाविति विशेषणमस्ति। केचित् पदकारमतमाश्रित्य 'हनिगमोरुपधायाः' इति पठन्ति। तेषां 'जिगांस्यते, अधिजिगांस्यते' इति इणिकोरपि गर्दी? भवत्येव। एर्गम: इगमः इति व्याख्यानाद् गच्छतेन भवति। भाष्ये तु न चिन्तितमेतत् । 'हनिडोरुपधायाः' इति सिद्धे गमिग्रहणं स्पष्टार्थम्। 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' (व्या० परि० ३९) इत्युपधाया एव भविष्यतीत्युपधाग्रहणमुत्तरार्थम् ।
नन् तदन्तविधिर्व्यञ्जनादिश्च प्रत्यय एव नामिनो वोरिति सप्तमी वर्णयिष्यामः। व्यञ्जने परे यो रेफवकारौ तयोः परयोर्धातोर्नामिन इति नैवं रेफवकाराभ्यां धातुर्विशिष्यते, 'विशेषणेन च तदन्तविधिः' व्यञ्जनादिश्च प्रत्यय एव सम्भाव्येत। ततश्च 'मूच्र्श्यते, धूळते' इति न सिध्यति, दीर्घपाठोऽपि गणे गौरवाय स्यात् । "राल्लोप्यौ' (४।१।५८) इति 'मुरौ, मुरः, धुरी, धुरः' इति च ह्रस्व इष्यते। तत्रोपधाधिकारबलादपेक्षयाऽन्तत्वमिति अन्त्यात् पूर्व उपधा इत्यपि न विरुध्यते। उत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थमुच्यते। तनोतेर्वेति वक्तव्यम्, तत्रापि सनि व्यञ्जनादाविति। तेन तितनिषतीत्यत्र दीर्घो न भवति। वक्तव्यं व्याख्येयमित्यर्थः। केचिद् दीर्घमिच्छन्ति केचिनेच्छन्ति, तेषां मतमिष्टमित्यर्थः ॥८३३।
[वि० प०]
हनि०। इङ्गमः इति 'सानिङोर्गमिः' इत्यनेन य इङ: स्थाने गम: स इङ्गमः इत्यर्थः । संजिगांसते इति सम्पूर्वो गम्ल इण् वा, पूर्ववद् गमिरादेशः। “समो गमृछि ०" (३।२।४२-२०) इत्यादिना रुचादित्वादात्मनेपदम् । वक्तव्यमिति। अत्रापि सनि व्यञ्जनादाविति वान्यत्र न भवति। तितनिषति इति। "इवन्तर्ध०'' (३।७।३३) इत्यादिना पक्षे इट् । वक्तव्यं व्याख्येयम् इति। केचिदिच्छन्ति केचिनेच्छन्ति, ये नेच्छन्ति तन्मतमिह प्रमाणमित्यर्थः ।।८३३।