________________
कातन्त्रव्याकरणम्
५. ककुब्भासः । ककुब् हास:। प्रकृत सूत्र से बकार को पकार, "तेभ्य एव हकार : पूर्वचतुर्थं न वा" (१। ४ । ४) से हकार को भकार तथा "वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् ” (१ । ४। १ ) से पकार को बकारादेश ।
"
४३०
६. अलेट् - अलेड् । प्रकृत सूत्र का बाधक सूत्र माना जाता है - " वा विरामे " (२। ३ । ६२), अत: प्रथमवर्णादेश के वैकल्पिक रूप में प्रवृत्त होने से टकारान्त तथा डकारान्त रूप निष्पन्न होते हैं।
७. आसीत्, आसीद् । क्रम सं० ६ के अनुसार दो रूप साधु माने जाते हैं ||८२१ । ८२२. रसकारयोर्विसृष्टः [३ | ८ | २]
(सूत्रार्थ)
पदान्तवर्ती रेफ और सकार के स्थान में विसर्गादेश होता है ।। ८२२ ।
[दु० वृ०]
पदान्ते वर्तमानयो रेफसकारयोर्विसृष्टो भवति । अबिभः, पचावः । पदान्त इति किम् ? बिभर्त्ति, आस्महे । अत एवारम्भ इति । कथम् अभिनस्त्वम्, अभिनत्त्वम्, अरुणस्त्वम्, अरुणत्त्वम् ? सौ पदान्तेऽरेफप्रकृत्योरपि वा दधोरत्वं स्यात् ॥ ८२२।
[दु० टी०]
इत्याह
रस०। इह पदान्तग्रहणं प्रकरणमपेक्षते, वचनादाख्यातिकप्रकरणे पदान्त एवेत्यर्थ पदान्त इत्यादि। अत एवारम्भ इति नियमार्थं सूत्रयति । अन्यथा "रेफसोर्विसर्जनीयः ” (२। ३। ६३) इत्येनेनैव सिद्धमिति भावः । प्रकृतिनियमश्चायमन्यस्य नियमस्याभावात् । कथमित्यादि। सौ विषये पदान्ते दकारधकारयोर्विसर्जनीयो न वक्तव्य एव "रप्रकृतिरनामिपरोऽपि " (१। ५। १४) इति बहुलवचनेन सिद्धमिति भावः ।। ८२२।
[वि० प० ]
रस०। अबिभः इति। ‘डु भृञ्' (२ । ८५) ह्यस्तन्या दिः सिर्वा, जुहोत्यादित्वाद् द्विर्वचनम् । ‘भृञ्हाङ्माङामित्" ( ३ । ३ । २४ ) इत्यभ्यासे इकारः, गुणे कृते "व्यञ्जनाद् दिस्यो:' (३। ६। ४७) लोप:, पदमध्ये "रेफसोर्विसर्जनीयः " ( २। ३ । ६३ ) इत्यनेन कथन्न भवतीत्याह—अत एवारम्भ इति । अन्यथा तेनैव सर्वत्र सिद्धिरिति भावः । तस्माद् आख्यातप्रकरणे पदान्ते एवेति नियमः साध्यते इति नियमः । कथमित्यादि । रधादित्वान्नशब्दः । इह "व्यञ्जनाद् दिस्योः " ( ३। ६ । ४७) इति सेर्लोपे सति अभिनत् त्वम्, अरुणत् त्वमेव स्यादिति । परिहारमाह - सावित्यादि । सौ विषये पदान्ते वर्तमानयोर्दकारधकारयोः “रप्रकृतिरनामिपरोऽपि” (१। ५। १४) इत्यपिशब्दस्य बहुलार्थत्ववचनाद् रेफे सति सिद्धिरिति भावः ॥ ८२२। [समीक्षा]
‘अबिभः, पचावः' इत्यादि शब्दरूपों में रेफ-सकार को विसर्गादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है "खरवसानयोर्विसर्जनीयः” (अ० ८। ३। १५)।
-