________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः ४११ [दु० वृ०]
एभ्य एकादशभ्योऽनिड् भवति । द्विष् - द्वेष्टा । पुष्-पोष्टा । कृष्-क्रष्टा । श्लिष् - श्लेष्टा । त्विष् - त्वेष्टा । पिष्ल - पेष्टा । विष्ल - वेष्टा । शिष्ल - शेष्टा । शुष् - शोष्टा । तुष्- तोष्टा। दुष् - दोष्टा।।८१०।
[दु० टी०]
द्विषि०। पुष्यतीति यना निर्देशाद् भौवादिकत्रैयादिकाभ्याम् इड् भवति- पोषिता। कृषिरिह भौवादिकस्तौदादिकश्चेत्यर्थः। श्लिष्यतीति यना निर्देशात् "श्रिषु श्लिषु प्रषु प्लुषु उष दाहे' (१।२२९) इति भौवादिकाद् इड् भवति- 'श्रेषिता, श्लेषिता' इत्यादि। विशिरित्यविशेषात् सामान्यस्य ग्रहणम् ।।८१०।
[समीक्षा द्रष्टव्य समीक्षा- सूत्र सं० ७९५। [रूपसिद्धि]
१. द्वेष्टा । द्विष् + ता । 'द्विष अप्रीतौ' (२।६०) धातु से श्वस्तनीविभक्तिसंज्ञक प्र० पु०-ए० व० 'ता' प्रत्यय, प्रकृत सूत्र द्वारा अनिट्, “नामिनश्चोपधाया लघो:" (३।५।२) से उपधासंज्ञक इकार को गुण-एकार तथा “तवर्गस्य षटवर्गाट्टवर्गः” (३।८।२) से तकार को टकारादेश।
२-११. पोष्टा । पुष् + ता । क्रष्टा । कृष् + ता । ऋकार को रकार । श्लेष्टा । श्लिष् + ता। त्वेष्टा । त्विष् + ता। पेष्टा । पिष्ल + ता। वेष्टा। विष्ल + ता। शेष्टा । शिष्ल + ता। शोष्टा । शुष् + ता । तोष्टा । तुष् + ता। दोष्टा । दुष् + ता ॥८१०।
८११. वसतिघसेः सात् [३।७।२९] [सूत्रार्थ)
असार्वधातुक प्रत्यय के परे रहते ‘वस्, घस्' इन सकारान्त दो धातुओं के उत्तर में इडागम नहीं होता है।।८११।
[दु० त०] आभ्यामनिड् भवति। वस् - वस्ता। जिघत्सति। नायं दान्त इति।।८११। [दु० टी०]
वस्० । अविकरणनिर्देशाद् 'वस आच्छादने' (२।४७) इत्यादादिकाद् इड् भवति। वसिता वस्त्राणाम् । “अदेर्घस्ल सनद्यतन्योः" (३।४।७९) इति कृते स्थानिवद्भावान सिध्यतीत्याह- नायं दान्त इति। 'घस्ल अदने' इति प्रकृत्यन्तरमस्ति, स च मरगविषये एव, भाषायां तत्र "घोषवत्योश्च कृति" (४।६।८०) इतीटप्रतिषेधः।।८११।
[वि० प०] __वसति। "अर्घस्ल सनद्यतन्योः" (३।४।७९) इति कृते अदेः स्थानिवद्भावाद् "अदितुदिनुदि०" (३।७।२१) इत्यादिना इट्प्रतिषेधः सिद्धः, किं घसेरुपादानेनेत्याह