________________
४०२
कातन्त्रव्याकरणम्
[दु० वृ०]
प्रच्छेश्छान्तादनिड् भवति । प्रष्टा, प्रक्ष्यति ।। ८०१ ।
[समीक्षा]
द्रष्टव्य समीक्षा सूत्र - सं० ७९९ ।
[रूपसिद्धि]
"1
१. प्रष्टा । प्रच्छ् + ता । 'प्रच्छ् ज्ञीप्सायाम्' (५।४९) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, अनिट् “छशोश्च " ( ३।६।६०) से छकार को षकार तथा " तवर्गस्य षटवर्गाट्टवर्ग:' (३।८।५) से तकार को टकारादेश ।
२. प्रक्ष्यति । प्रच्छ् + स्यति। 'प्रच्छ् ज्ञीप्सायाम्' (५।४९) धातु से भविष्यन्तीसंज्ञक 'स्यति' प्रत्यय, प्रकृत सूत्र से अनिट, छकार को षकार, "षढोः कः से" (३१८२४) से षकार को ककार, “निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्” (३।८।२६ ) से सकार को षकार तथा 'क-ष्' संयोग से क्षकार || ८०१ |
८०२. युजिरुजिरन्जिभुजिभजिभन्जिसन्जित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिस्वन्जेर्जात् [३।७।२०]
[सूत्रार्थ]
जकारान्त 'युज्, रुज्, रन्ज्, भुज्, भज्, भन्ज, सन्ज्, त्यज्, भ्रस्ज्, यज्, मस्ज्, सृज्, निज्, विज् तथा स्वन्ज्' इन १५ धातुओं से उत्तर में असार्वधातुकप्रत्ययनिमित्तक इडागम नहीं होता है।। ८०२ |
[दु० वृ०]
एभ्यः पञ्चदशभ्योऽनिड् भवति । युजिर्, युज् - योक्ता । रुज् - रोक्ता । रन्ज् - रङ्क्ता । भुज्, भुजो-भोक्ता। भज्-भक्ता। भन्ज्-भङ्क्ता। सन्ज्-सङ्क्ता। त्यज्-त्यक्ता। भ्रस्ज्- भ्रष्टा। यज्-यष्टा। टु मस्जो-मङ्क्ता। सृज् - स्रष्टा । निजिर्-नेक्ता । विजिर्वेक्ता । न तु 'ओ विजी’ ( ५ / ११५; ६ । १९), ईदनुबन्धबलात्। स्वन्ज्- स्वङ्क्ता ।। ८०२ ।
[दु० टी०]
युजि०। विजिर् इत्यादि। ‘विजिर् पृथग्भावे' इत्यस्यैव ग्रहणम्, न तु 'ओ विजी भयचलनयोः' (५।११५; ६ । १९ ) इत्यस्यैव । यद्यनेन सिद्धः "न डीश्वीदनुबन्धवेटाम्" (४।६।९०) इत्यनेन प्रतिषेधोऽनर्थकः स्यात् । भिन्नकर्तृकत्वान्न ज्ञापकश्चेत् तथापि निजिना साहचर्याद् विजेर्यौहोत्यादिकस्य ग्रहणम्, 'ओ विजी भयचलनयो:' ( ५/११५; ६।१९) इत्यस्य तौदादिकस्य-‘उद्विजिता, उद्विजितुम्' भवत्येव ।। ८०२ ।
[वि० प० ]
युजि० | मङ्क्तेति । "व्रश्चिमस्जोर्थुटि" (३/६/३५ ) इत्यत्र साधितम् स्रष्टेति । " सृजिदृशो : " ( ३।४।२५) इत्यादिना अकारागमः । न तु 'ओ विजी' इति । ईदनुबन्धो हि "न