________________
३९६
कातन्त्रव्याकरणम्
[रूपसिद्धि
१. ग्रहीता। ग्रह् + इट् + ता। 'ग्रह उपादने' (८।१४) धातु से श्वस्तनीविभक्तिसंज्ञक परस्मैपद-प्र० पु०-ए० व० 'ता' प्रत्यय, "इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादे:" (३।७।१) से इडागम तथा प्रकृत सूत्र से इट् को दीर्घ।
२. ग्रहीष्यति। ग्रह् + इट् + स्यति। 'ग्रह उपादाने' (८।१४) धातु से भविष्यन्ती संज्ञक 'स्यति' प्रत्यय, इडागम, प्रकृत सूत्र से दीर्घ तथा सकार को षकार।
३. अग्रहीत्। अट् + ग्रह् + अद्यतनी-दि। 'ग्रह उपादाने' (८।१४) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय, अडागम, इडागम, सिच् प्रत्यय, ईडागम, सिच् लोप तथा दकार को तकारादेश।।७९४।।
७९५. अनिडेकस्वरादातः [३।७।१३] [सूत्रार्थ
एकस्वरविशिष्ट आकारान्त धातु से उत्तर में असार्वधातुक प्रत्यय को निमित्त मानकर होने वाला इडागम नहीं होता है।।७९५।
[दु० वृ०]
एकस्वराद् आकारान्ताद् धातोः परमसार्वधातुकमनिड् भवति। दाता, दास्यति, दातव्यम् । एकस्वरादिति किम्? दरिद्रिता।
अनात्मनेपदस्थात्तु वृतादेरिड् न स्ये सनि।
श्वस्तन्यां च कृपे व कृतादेवापि सेऽसिचि।। वृतू-वय॑ति, विवृत्सति। वृधू-वय॑ति, विवृत्सति। शृधू-शय॑ति, शिशृत्सति । स्यन्दू-स्यन्त्स्यति, सिस्यन्त्सति। कृपू-कल्प्स्यति, चिक्लप्सति, कल्प्ता, कल्प्तासि कृपेः श्वस्तन्यां वा रुचादित्वम्। कृती-कर्त्यति, कर्तिष्यति। एवं घृती हिंसायाम्- चय॑ति, चर्तिष्यति । उ छुदिर्-छय॑ति, छर्दिष्यति। उ तृदिर्-तय॑ति, तर्दिष्यति । नृती-
नय॑ति, नतिष्यति । असिचीति किम्? अकर्तीत् ।।७९५।
[दु० टी०]
अनिट्। न विद्यते इट् यस्येति बहुव्रीहिणा षष्ठ्यन्तस्योक्तत्वादाह- असार्वधातुकमिह प्रथमान्तमभिसम्बध्यते इत्याह- परमसार्वधातुकमिति। अनात्मनेपदस्थादिति। वृतादेः स्यसनोर्विषये उभयपदम, यजादेराकृतिगणत्वात्। वृतादयः पञ्चैवान्ते वृत्करणात्। वृतादिभ्यस्त्रिभ्यो नित्यम् इटि प्राप्ते स्यन्दू कृप्वोस्तूदनुबन्धत्वाद् विकल्पे प्राप्ते प्रतिषेधः। विवृत्सिता, विवृत्सितुम्, विवृत्युसितव्यम् इत्युदाहरणम् । आत्मनेपदस्याभावोऽनात्मनेपदमिति। अनात्मनेपदस्थादिति किम्? वर्तिष्यते। श्वस्तन्यां च कृपेनैवेति सकारादौ श्वस्तन्यां चेत्यर्थः। सकारादेर्बाधक: सम्भाव्यते इति चकारः क्रियते। अनात्मनेपदस्थादित्येव । कल्पिष्यते, चिकल्पिषते, कल्पितासे, कल्पिषीष्ट। कृतादेर्वापि सेऽसिचीति सिचं वर्जयित्वेत्यर्थः। 'कृती छेदने, कृती वेष्टने' (५।१२; ६।१०) द्वयोरपि ग्रहणम्, कृतादयः पञ्च व्यवस्थिताः। अपिशब्दोऽत्र पादपूरणे।।७९५।