________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः योगविभागार्थमित्याह -ऋदृवृञोऽपीत्वादि । इड्ग्रहणं न कर्तव्यम्, तत्रैव प्रथमान्तं निर्दिष्टं षष्ठीनिर्देशेन चेहार्थ:? सत्यम् । ग्रहेरेव दीर्घ इत्यपि विप्रतिपद्येत। 'श्रुतानुमितयोः श्रौतसम्बन्यो विधिर्बलवान्' (का० परि० ९२) इति व्यवहितस्य इज्वद् इटो न ग्रहणम् इति भावः। कथं जरीग्रहितेति। "यस्याननि" (३।६।४८) इति यलोपे कृते ग्रह: पर इड् भवत्येव, नैवम् । इनिर्देशस्य स्वरूपग्राहकत्वात्। अपर आह- अपरोक्षायामिति युक्तं तावद् द्विप्रयोगे (द्विवचने) स एवायं ग्रहिरिति गृह्यशब्दस्य द्विवंचने कथं ग्रहिग्रहणेन ग्रहणं स्यात्। “यस्याननि" (३।६।४८) इति भेदकेऽपि निवृत्ते तथाबुद्धेः समुन्नयाच्च, तदसत्, ग्रहः पर इति स्यात् । अथापरोक्षायामिति प्रतिषेधो जग्रहिथेत्यत्र प्रयोजयति, ग्रहरूपस्य सम्भवात् । कथं तर्हि गृहीतं ग्रहीतिरिति नित्यत्वात् सम्प्रसारणे कृते दीर्घो न स्यात्? सत्यम् , अथलीति सिद्धे अपरोक्षायाम् इति वचनाद् दीर्घ एव प्राक् प्रवर्तते न सम्प्रसारणमिति। अन्य आहविहितविशेषणमिहेति ग्रहेयों विहित इट् तस्य दीर्घ इति चेक्रीयितान्तान भवति। ननु चात्र एकस्वरादिति क्रियताम् अपरोक्षायामिति न विधेयं स्यात्? सत्यम्। प्रतिपत्तिरियं गरीयसीति। ववरिथेति। "वृव्येऽदाम्" नित्यमिट थलीति, वृज इडागमो नित्यं थलिा अदारिष्टाम् इति। 'दृ विदारणे' (८।१९)॥७९४।
[वि० प०]
इटो। नन्विडिति। आगमान्तरमेवास्ताम, किमिटो दीर्घ इत्यनेन इत्याह- इट्त्वादिति। इह इट: स्थाने दीर्घस्यापि तद्भावाद् इट्त्वम्, ततः "इटश्चेटि" (३६।५३) इति लक्षणं प्रवर्तते, तथा सेट्त्वाद् अस्य च दीपों न स्यादित्यर्थः। कथमित्यादि। "कृतोऽमुटः" (३।७।३७) इत्यत्र प्रकरणान्तरविहितस्य इज्वद् इट: इहाश्रुतत्वान दीर्घ इत्यर्थः। योगविभञ्जनादिति । इडीडिति कृते सिध्यति यदिह दीर्घग्रहणं तद्योगविभागार्थ ततश्चेयमिष्टसिद्धिरिति भावः।।७९४।
[समीक्षा
'ग्रहीता, ग्रहीतम, ग्रहीतव्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में इडागम का विधान किया गया है। पाणिनि का सूत्र है - "ग्रहोऽलिटि दीर्घः" (अ० ७।२।३७)। ज्ञातव्य है कि पाणिनि ने 'लट, लिट्, लुट, लट्, लेट, लोट, लङ्, लिङ्, लुङ्, लङ्' इन दस लकारों द्वारा कालविभाग किया है, परन्तु कातन्त्रकार ने तदर्थ 'वर्तमाना-परोक्षा-श्वस्तनी-अद्यतनी-भविष्यन्ती' आदि लोकप्रसिद्ध संज्ञाओं का प्रयोग किया है। पाणिनीट 'लिट्' के लिए कातन्त्र में परोक्षा विभक्ति का प्रयोग प्रचलित है, तदनुसार ही सूत्रों में उन शब्दों का प्रयोग किया गया है।
[विशेष वचन १. दीर्घग्रहणं योगविभागार्थम् (दु० टी०; वि० प०)। २. इनिर्देशस्य स्वरूपग्राहकत्वात् (दु० टी०)। ३. प्रतिपत्तिरियं गरीयसीति (दु० टी०)। ४. ततश्चयमिष्टसिद्धिरिति भावः (वि० प०)।