________________
३९२
कातन्त्रव्याकरणम्
[दु० वृ०]
I
एषां सनि परे इडागमो भवत्यादिः । स्मिङ् - सिस्मयिषते । पूङ्-पिपविषते । पुत्रस्तु पुपूषति । ऋ-अरिरिषति। अन्जू - अञ्जिजिषति । अशू -अशिशिषते । कृ- चिकरिषति । गृजिगरिषति । दृङ् आदरे-दिदरिषते । धृङ् अवस्थाने-दिधरिषते । प्रच्छ ज्ञीप्सायाम्-पिपृच्छिषति। प्रच्छिसहचरिताः कृ-गृ-धृ-तौदादिकाः । कृञ् हिंसायाम्-चिकरिषति, चिकीर्षति । गृ शब्दे - जिगरिषति, जिगीषति । दृ विदारणे- दिदरिषति, दिदीर्षति । धृञ् धारणे-दिधीर्षति । कृग्रोर्ज्ञापकस्य सविकल्पकत्वादन्येषामृदन्ताना वा स्यादेव । कथं प्रावुवूर्षते, प्राविवरिषते, संवुवुर्षति, संविवरिषति ? वृङवृञोर्नञा निर्दिष्टस्यानित्यत्वात् ।
ऋद्वृङ्वृञां सनीड् वा स्यादात्मने च सिजाशिषोः । संयोगादेर्ऋतो वाच्यः सुडसिद्धो बहिर्भवः । ।
तृ - तितरिषति, तितीर्षति। अतरिष्ट, अतीष्ट। तरिषीष्ट, तीर्षीष्ट। वृङ् वृञ् वा अवरिष्ट, अवृत। वरिषीष्ट, वृषीष्ट । ध्वृ - अध्वरिष्ट, अध्वृत । ध्वरिषीष्ट, ध्वृषीष्ट । समस्कृत, संस्कृषीष्ट इति, असिद्धं बहिरङ्मन्तरङ्गे ॥ ७९३|
[दु० टी०]
स्मिङ्०। स्मिङो ङकारः स्पष्टार्थ एव, केचिद् न पठन्ति । 'ऋ प्रापणे, ऋ सृ गतौ' (१।२७५; २|७४), द्वयोरपि ग्रहणम् । 'अशू' इत्यूदनुबन्धः किमर्थ:, 'अंश भोजने' (८।४३) इत्यस्माद् इडस्त्येव ? सत्यम् । 'रन्ज रागे वश कान्तौ' ( ३ | १२१; २।३) इत्यपि प्रतिपद्येत । स्मि - पूङ् - ऋणां प्रतिषेधे वचनम् । अन्जेरशोश्चोदनुबन्धत्वाद् विकल्पे प्राप्ते नित्यार्थमिति। प्रच्छीत्यादि । कृग्रोः क्रयादिकयोः धृञश्च भौवादिकस्य न भवतीत्यर्थः। दृधातुर्न व्यभिचरत्येव । ऋकारान्तत्वात् प्रतिषेधे कृग्रोर्ग्रहणं युक्तम् । कृग्रोर्ग्रहणं किमर्थमित्याह-कृग्रोर्ग्रहणं ज्ञापयति सनि ऋकारान्तानामिड् नास्तीति । अन्यथानयोरिट् सिद्ध एव, सविकल्पान्यपि ज्ञापकानि भवन्ति इति विभाषा साधितेत्यर्थः । कृग्रोरेव सनि, सन्येव वा कृग्रोरिति नियमो न भवति, आगमात् । जिहीर्षतीति । सनि दीर्घत्वे न भवति प्रतिपदोक्तस्य व्यावृत्तिबलात् । कथमित्यादि। नञा निर्दिष्टमनित्यम् । तच्च लक्ष्यानुरोधादिति विभाषा सिद्धा । ऋकारान्तस्य वृञवृङोश्चात्मनेपदे सिजाशिषोर्विभाषा संयोगादेर्ऋकारान्तस्यात्मनेपदे सिजाशिषोर्विभाषा वाच्या, व्याख्येया इत्यर्थः । एतच्च आगमशासनमनित्यमिति प्रतिपदोक्तग्रहणाद् वा सुरागमे कृते संयोगादिनोंच्यते इति समुच्चयेन श्लोकमाह‘ऋद्वृञ्वृङामित्' इत्यादि । । ७९३ ।
[वि० प०]
11
स्मिङ् । पिपविषते इति । "उवर्णस्य जान्तस्था ०' (३।३।२७) इत्यादिनाभ्यासे उकारस्येत्त्वम्, पूञस्त्वित्यादि । " उवर्णान्ताच्च" ( ३।७।३२) इतीटः प्रतिषेध एवेत्यर्थः । प्रच्छीत्यादि । तेन कृग्रोर्वक्ष्यमाणन्यायेन विकल्प एवेत्यर्थः । धृञस्तु भौवादिकस्य “ऋतोऽवृङ्वृञः” (३।७/१६) इतीट्प्रतिषेध एवेति । अथ कृग्रोरुपादानं किमर्थम्, प्रतिषेधाभावाद् अनयोरिट् सिद्ध एवेत्याह- कृप्रोरित्यादि । कथमित्यादि। अथ किमिहं इट्