________________
३८४
कातन्त्रव्याकरणम्
६. व्यतिजजिम्वे। वि + अति + जन् + इट् + ध्वे। 'वि-अति' उपसर्गपूर्वक 'जन जनने' (२।८०) धातु से वर्तमानासंज्ञक 'ध्वे' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
७. व्यतिजज्ञिध्वम्। वि + अति + जन् + इट् + ध्वम् । 'वि-अति' उपसर्गपूर्वक पञ्चमीसंज्ञक आत्मनेपद - मध्यमपुरुष-बहुवचन 'ध्वम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत्।।७८७।
७८८. से गमः परस्मै [३।७।६] [सूत्रार्थ
परस्मैपदसंज्ञक प्रत्यय के आदि में वर्तमान सकार के परे रहते ‘गम्' धातु से उत्तर में इडागम होता है।।७८८।
[दु० वृ०]
परस्मैपदस्य यो गमिस्तस्मात् से परे आदिरिडागमो भवति। गमिष्यति, जिगमिषति, अधिजिगमिष त्वम्, जिगमिषा, जिगमिषुः। जिगमिषितव्यम् । परस्मैपदस्येति किम्? अधिजिगांसते, सङ्गसीष्ट। केचिद् योगं विभज्यात्मनेपदेऽपीटमिच्छन्ति। तन्मते 'संजिगमिषुः, अधिजिगमिषितव्यम् । अनिङ्गमः कृतीत्येके, तदा अधिजिगांसुरिति।।७८८।
[दु० टी०]
से०। गमेरनन्तरः सार्वधातुके सकारो नास्तीत्यर्थादसार्वधातुक एव भवति। "यमिरमिनमिगमेर्मात्" (३।७।२६) इति प्रतिषेधे वचनम् । पदशब्दोऽत्रावगम्यते, स च षष्ठ्यन्तेन भाव्यते इत्याह - परस्मैपदस्येति। अधिजिगमिष त्वम् इति अधिपूर्व: 'इक स्मरणे' (२।१२), 'इष्वदिकोऽपि' इति गमिरादेशः। केचिद इत्यादि। “से गमः' इत्येकं सूत्रम्, “परस्मैपदे” इति द्वितीयम् । भावे सप्तमीयमात्मनेपदे न भवतीत्येकयोगो वाक्यकारस्य दर्शनम्। इदं तु भाष्यकारसम्मतम् । यथोक्तम् सिद्धं तु गमेरात्मनेपदेन समानपदस्येटप्रतिषेधादिति। अनिङ्गम इति। इङो गमिर्य इङ: स्थाने विहितस्तस्य प्रतिषेधोऽयम्, तेनान्यस्य गमेः कृतीडागम इति।।७८८।
[वि० प०]
से गमः। आदिलोप इत्यादिना षष्ठ्या सह पदशब्दस्य लोप इत्याह-परस्मैपदस्येति। कः पुनः परस्मैपदविषयो गमिर्यस्य भावकर्मणी नार्थो यश्च "समो गमृच्छि०" (३।२।४२-२०) इत्यादेरविषय इङादेशश्च न भवति, स परस्मैपदसम्बन्धी गमिः। तेनान्तरेणापि परस्मैपदं गमेरिडागमो भवति, तस्य निमित्तत्वेनानभिधानात् । गमेरनन्तरः सार्वधातुके सकारो नान्तानां व्यवहितत्वात् । अत: प्रकृतमपि सार्वधातुकं न वर्तते इत्यसार्वधातुके भवति। अधिजिगमिष त्वम् इति अधिपूर्व: 'इक् स्मरणे' (२।१२), सन्, इण्वदिकोऽपीति गमिरादेश: "हेरकारादहन्तेः" (३।४।३३) इति हिलोपः। परस्मैपदस्येत्यादि। अधिपूर्व इङ: “सनीणिङोर्गमिः" (३।४।८६) इति गमिः, "हनिङ्गमोरुपधायाः” (३।८।१३) इति दीर्घः। तथा सम्पूर्वस्य गम्लधातो: “समो गमृच्छि०" (३।२।४२-२०) इत्यादिना