________________
३८२
कातन्त्रव्याकरणम्
७८७. ईड्जनोः सध्वे च [३।७।५] [सूत्रार्थ
सार्वधातुकसंज्ञक प्रत्यय के सकार तथा ध्व के परे रहते 'ईड्-जन्' धातुओं से उत्तरवर्ती इडागम होता है।।७८७।
[दु० वृ०]
ईड्जनोः सार्वधातुके सकारे ध्वे च परत: आदिरिडागमो भवति। ईडिषे, ईडिष्व, ईडिध्वे, ईडिध्वम्। व्यतिजजिषे, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् । जन जनने। न जनी-यना व्यवहितत्वात् । सध्वे चेति पठितत्वाच्चकारेण ईशिरनुकृष्यते- ईशिध्वे, ईशिध्वम्।।७८७।
[दु० टी०]
ईड्। सश्च ध्वं च सध्वम् । समाहारो यथासंख्यविधातार्थः। व्यतिजज्ञिध्वे इति क्रियाविनिमये रुचादित्वम् । न जनीत्यादि। अत्र जायते इति भवितव्यम् , परादपि नित्यो विधिर्बलवानिति यन्नेवेत्यर्थः। प्रत्ययादनर्थकश्चकार: प्रकृत्याभिसम्बध्यते। ईड्जनोश्च सध्वे इत्याह - चकार इत्यादि। तर्हि योगविभाग: किमर्थः 'ईशीड्जनां सध्वे' इत्यास्ताम्। सूत्रकारमतं वर्णयन्ति- नियमार्थो योगविभागः स इत्यविभक्तिकोऽयं निर्देशः। ईश: से शब्द एवेति। स्वशब्दे 'ईशिष्व' इति न भवितव्यम् । वाक्यकारस्तु प्रमाणभूतो। मध्यमैकवचनं यः स्वशब्दः स एव क्रियासमभिहारे सर्वेषां वचनानां प्रसङ्गे तस्माद् योगविभागगौरवं देयानुषङ्गश्च सर्वथा न व्यावर्त्यते इत्येकयोग एव कर्तव्य इत्याह। अन्यः पठति 'ईड्जनोः सध्वे च' इति ईशोऽप्यनुवृत्तिः स्मर्यते इति। योगविभागस्तु वैचित्र्यार्थः।।७८७।
[वि० प०]
ईड्जनोः। अथेह निमित्तनैमित्तिकयोः समानत्वाद् यथासंख्यं कथं न स्यात्? नैवम् , सश्च ध्वश्च सध्वमिति समाहारोऽयमन्यत्रैकत्वाद् वैषम्यमिति कुतो यथासंख्यम्। अन्यथा सध्वयोरिति विदध्यात् । जनेर्व्यतीहारे आत्मनेपदम् , जुहोत्यादित्वाद् द्विवचनम्, गमहनेत्यादिनोपधालोपः। ततः "तवर्गश्चटवर्गयोगे चटवौँ' (२।४।४६) इति अकारः। नन्विह सकारस्यापि पठितत्वात् तदनुकर्षणार्थश्चकारो न युज्यते । तत् किमनेनेत्याह- सध्वे चेत्यादि।।७८७।
[बि० टी०]
ईड्जनोः। ईशीड्जनां सध्वे चेत्येकयोगे सिध्यति भिन्नयोगो नियमार्थः - ईश: सेशब्द एवेति। तेन ईश् धातोः स्वे नेडागमः, यत् पुनर्वृत्तौ 'ईशिष्च' इति, तत्परमतमाश्रित्योक्तमित्याहोमापतिसेनः। तन्न, टीकाविरोधात्, टीकातिरिक्तवादिपक्षमाश्रित्योक्तम् ।।७८७।