________________
३७८
कातन्त्रव्याकरणम्
३. भवितव्यम्। भू+इट + तव्य + सि। 'भू सत्तायाम्' (१।१) धातु से “तव्यानीयौ' (४।२।९) सूत्र द्वारा लिङ्गसंज्ञा, 'सि' प्रत्यय, नपुंसकलिङ्ग' में 'मु' आगम तथा सि-प्रत्यय का लोप।।७८३।
७८४. स्नुक्रमिभ्यां परस्मै [३।७।२] [सूत्रार्थी
यकारादिभिन्न असार्वधातुक प्रत्यय के परे रहते परस्मैपदी 'स्नु-क्रम' धातुओं से उत्तर तथा प्रत्यय से पूर्व में इडागम होता है।।७८४।
[दु० वृ०]
परस्मैपदविषये यौ स्नुक्रमी ताभ्यां परस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिडागमो भवति। प्रस्नविता, प्रस्नविष्यति, ऋमिता, क्रमिष्यति, चिक्रमिषति । परस्मैपदविषय एवेति नियमात् - व्यतिस्नोष्यते, प्रचिक्रंसते, उपचिक्रंसते। प्रोपाभ्यां क्रमी रुचादिः। आदिकर्मणि - प्रस्नवितव्यम्, प्रक्रमितव्यम् इत्यसमानविषयत्वादिः । कथं प्रक्रन्ता, उपक्रन्ता? आत्मनेपदविषयस्य क्रमेः कर्तरि कृतीट् प्रतिषेध एव। प्रस्नवितेवाचरति- प्रस्नवित्रीयते। आयिरयमात्मनेपदी ॥७८४।
[दु० टी०]
स्नुक्र०। "अयुरुनुस्नुक्षक्ष्णुवः" (३।७।१५) इति वर्जनात् स्नौतेरिट प्राप्तः, क्रमेश्चाप्रतिषेधानियम आरभ्यते, तत्र स्नक्रमिभ्यामेवेति न विपरीतनियमो "व्यञ्जनान्तानामनिटाम्" (३।६७) इति वचनात् । अथवा परस्मैपद इति सति (भावे) सप्तमी नौपश्लेषिकलक्षणेति परस्मैपदे सति भवति, असति न भवतीति। कथमित्यादि। अन्यस्य विषयस्यासम्भवादन विषयो ह्यनन्यभाव एवेति । यस्य भावकर्मणी कर्मकर्तृविनिमयौ वृत्त्यादयश्चार्था विवक्ष्यन्ते, प्रादयश्चोपसर्गा विशेषका भवन्ति, स च क्रमिरात्मनेपदविषयः। माघस्य स्खलितं दृश्यते- चिक्रंसया कृत्रिमपत्रिपङ्केः' इति, तदेतन वक्तव्यम्- अभिधानलक्षणाः कृतद्धितसमासा इति। प्रस्नवितेत्यादि । एवं प्रक्रमित्रीयते, बहिरङ्गमात्मनेपदमन्तरङ्गे इडागम इति भावः। कथं तर्हि प्रचिक्रंसिष्यते । सनन्तस्यात्मनेपदविषयत्वात्, नैवम् । क्रमिरेवात्मनेपदविषय इति तत्प्राप्तेः पूर्ववत् सनन्तादित्यतिदेशात् ।।७८४।
[वि० प०]
स्नुक्रमि०। भावकर्मकर्मकर्तृक्रियाविनिमया: वृत्त्यादयश्चार्थाः। ययोर्न विवक्ष्यन्ते तौ परस्मैपदविषयौ स्नुक्रमी, ताभ्यामित्याह- परस्मै इत्यादि । उकारान्तप्रतिषेधे "अयुरुनुस्तुक्षक्ष्णुवः" (३।७।१५) इति वर्जनात् स्नौतेरप्रतिषेधात् क्रमेश्च बाधकाभावात् पूर्वेणैवेटि सिद्धे नियमार्थमिदमुच्यते। स च स्नुक्रमिभ्यामेवेति न विपरीतनियमः। तदा हि परस्मैपदेनान्येषामिडिति "व्यञ्जनान्तानामनिटाम्" (३।६७) इत्यनिडग्रहणमनर्थकमेव स्यात् । सिचि परस्मैपदे इटोऽसम्भवात् किं व्यवच्छिद्यते इत्याह-परस्मैपदविषय एवेति । असमानविषयत्वादिति। सादृश्यादात्मनेपदमेव नियमेन व्यावृत्यते इत्यर्थः। एवं तींदं न