________________
३७६
कातन्त्रव्याकरणम्
[दु० टी०]
इडा०। पुनरित्यादि। धातुसंज्ञामाश्रितमसार्वधातुकमर्थः प्रयोजनमस्येति विग्रहः। धातोरित्यनया श्रुत्या यदविहितमसार्वधातुकमित्यर्थः। तेन नान्वोर्गपादिभ्यश्च सनि प्रतिषेधो वक्तव्यो न स्यात् । एवं सति नूभ्याम्, लूभ्यामिति चोद्यमेव नावतरति, तर्हि किमसार्वधातुकग्रहणेन, व्यञ्जनादेरयकारादेर्धातोरिति विशेषणं स्याद् घढधभान्तस्येति। धातोरिति षष्ठ्यन्तस्यो पात्तं न च पञ्चम्यन्ततया कल्पयितुं शक्यते । अडागम इवेडागमे। धातोरादिश्चेद् इवर्णादश्रिडीशीङ: शके: कादित्ययुक्तं स्यात् । विजेरिटीति गुणनिषेधवचनाच्च। तस्माद् धातोरिति पञ्चम्यन्तं तच्च प्रत्ययस्य विशेषणं तथापि सार्वधातुकनिवृत्त्यर्थं कर्तव्यमित्याहशेते वेत्तीति। एतदपि न प्रयोजनम्,रुचादेः सार्वधातुके इति नियमो भविष्यति, नैवम् । विपरीतनियमोऽपि शक्यते। रुदादेः सार्वधातुके एवेति ततश्च रोदितेत्यत्र न स्यात् 'वस्ते, शेते' इत्यत्र स्याद् इट् । तर्हि 'सनि चानिटि' (३।५।९) इति सिद्धे "रुदविदमुषां सनि" (३।५१६) इति रुदिग्रहणमनर्थकम्, स्वपेरिटप्रतिषेधनं चेति, तस्मादसार्वधातुकग्रहणं प्रतिपत्तिगौरवनिरासार्थम् । आगमग्रहणमन्यत्र विधीयमानस्येटोऽसार्वधातुकस्यादित्त्वप्रतिपत्त्यर्थम् । अर्तीण्घसैकस्वरातामिड्वन्सावित्यादावित्येके। भिन्नकर्तृकत्वात्, तदसत्। स एवायमिति तत्रैकत्वाध्यवसायान दुष्यतीति स्पष्टार्थमेवैतत् ।।७८३।
[वि० प०]
इडागमः। अथ किमर्थमिदं पुनर्धातुग्रहणम् उत्तरार्थमित्युक्तमेवेत्याह- पुनरित्यादि। धातुसंज्ञामाश्रितं धातुसंज्ञाश्रितम्, तथाभूतमसार्वधातुकमेवार्थ: प्रयोजनमस्येति विग्रहः। अयमर्थःधातोरिति किमुक्तं भवति, धातो रित्यनयां श्रुत्या यद् विहितमसार्वधातुकं तस्यादिरिडित्यर्थः। तेन "ना ज़्यादेः" (३।२।३८) इत्यादिना विहितस्य विकरणस्य गुपमानादिभ्यः सनश्चादिरिडागमो न भवतीति सिद्धम् ।।७८३।
[बि० टी०]
इडा०। धातोरित्यनया श्रुत्येति, अयमभिप्रायः प्रकरणत्वेन। यद् धातत्वं प्राप्तं तदवलम्बनेन यः प्रत्ययो भवति साध्यगतित्वावलम्बनेन यः प्रत्ययो जातस्तस्यादिरिडित्यर्थः। ननु रुचादि (सूत्र) द्वारेण यः प्रत्ययो जातस्तस्यादिरिड् न भवतु गणद्वारेण विहितत्वात्? सत्यम् । रुचादिसूत्रेण वर्तमानादय: काले विधीयन्ते इति कालश्च क्रियाया एव। क्रिया च धात्वर्थः, अतोऽत्र धात्ववलम्बनेन प्रत्ययो जातस्तेनेट् स्यादेव, अनादयः काले विधीयन्त एव। किञ्च रुचादिसूत्रे धात्वधिकारोऽवश्यमेव कार्य:, अन्यथा रोचनं रुच , भावे क्विप्, तस्मादप्यात्मनेपदं स्यात्, तर्हि "नुः ष्वादे:' (३।२।३४) इत्यत्रापि धात्वधिकारः आश्रयणीयः। अन्यथा उपसर्गादपि नुः स्यादिति, न देश्यं स्वादेर्नुः स्यात् सार्वधातुके परे इति सार्वधातुके उपसर्गस्य वर्तमानत्वाभावात् । गुपूप्रभृति धातुत्वं नावलम्बते। अन्यथा गुपशब्दोऽपि स्यात्, तदयुक्तम् । गुपधातोर्यदि कृत्प्रत्यय: स्यात तदा शब्दवत् तस्माद् धातोर्नित्यं सनेव विद्यते नान्यः प्रत्ययस्तर्हि गुपधातोर्निन्दायां कृत्प्रत्ययो दृष्टस्तत्र स्यादिति न देश्यम् । सिद्धपक्षे यथा निन्दार्थे वर्तमानगुपधातोर्न स्यात्, अस्मिन् पक्षेऽपि तथा । यद् वा 'धातोर्वा तुमन्तात्''